2023-03-12 05:00:22 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
अभिनिष्पन्नम् (अभिनिष्पद्यते) - (अभिनिष्पन्नः) बन्धनमुक्तः शुद्धात्मा ।
यथा – योऽभिनिष्पद्यत इत्युक्तः स सर्वबन्धविनिमुक्तः शुद्धेनैवात्मनाऽवतिष्ठते
(ब्र० सू० ४।४।२ शा० भा० ) ।
-
अभिन्ननिमित्तोपादानकारणम् - जन्माद्यस्य यतः (ब्र०सू० १ । १ ।२) इत्यनेन
ब्रह्मैव जगतो जन्मस्थितिलयहेतुः । इदं च ब्रह्म जगतो निमित्तकारणं तथा उपादान-
कारणम् । जगतो विश्वप्रपञ्चस्य कार्यजातस्य कर्तृत्वेन ब्रह्म निमित्तकारणम्, मायायां
परिणाम्युपादनत्वेऽपि मायाया अधिष्ठानत्वेन स्वाधिष्ठानं विना माया न किञ्चित्
कर्तुं प्रभवति इति हेतोः मायाधिष्ठानं ब्रह्म उपादानकारणम् । एवं प्रकारेण एकमेव
ब्रह्म विश्वप्रपञ्चस्य निमित्तकारणमुपादानकारणमतोऽभिन्ननिमित्तोपादानकारणम् ।
यथा - प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् । अत्र जगत्पदेन कार्यजातं
विवक्षितम् । कारणत्वं च कर्तृत्वमतोऽविद्यादौ नातिव्याप्तिः । कर्तृत्वं च तत्तदुपादान-
गोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । ईश्वरस्य तावदुपादानगोचरापरोक्षज्ञानसद्भावे च
यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयंतपः । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते
(मु० १।१।९) । इत्यादि श्रुतिर्मानम् । तादृशचिकीर्षासद्भावे सोऽकामयत बहुस्यां
प्रजायेय (तै० २।६) इत्यादि श्रुतिर्मानम् । तादृशकृतौ च तन्मनोऽकुरुत इत्यादिवाक्यम् ।
ज्ञानेच्छाकृतीनां मध्येऽन्यतमगर्भलक्षणत्रितयमिदं विवक्षितम् । अन्यथा व्यर्थविशेषण-
त्वापत्तेः। अत एव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः । एवं च प्रकृते
लक्षणानि नव सम्पद्यन्ते । ब्रह्मणो जगज्जन्मादिकारणत्वे च - यतो वा इमानि भूतानि
जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति (तै० ३।१) श्रुतिर्मानम् । यद्वा
निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् । उपादानत्वं च जगदध्यासाधिष्ठानत्वं जगदा-
कारेण विपरिणममानमायाधिष्ठानत्वं वा । एतादृशमेवोपादनत्वमभिप्रेत्य इदं सर्वं
यदयमात्मा सच्चत्यच्चाभवत् (तै० २।६) बहुस्यां प्रजायेय (तै० २।६) इत्यादिश्रुतिषु
ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः । घटः सन् घटो भाति घट इष्ट इत्यादिलौकिकव्यप-
देशोऽपि सच्चिदानन्दरूपब्रह्मैक्याध्यासात् (वे० प० ७ प०) । यथा च - अन्ये
तु जन्मकारणत्वस्य स्थितिकारणत्वस्य च निमित्तसाधारण्यात् उपादानत्वप्रत्यायनाय
प्रपञ्चस्य ब्रह्मणि लयो दर्शितः । अस्तु ब्रह्म जगदुपादानं तज्जन्मनि घटजन्मनि
कुलालवत् तत्स्थितौ राज्यस्थेमनि राजवत् उपादानादन्यदेव निमित्तं भविष्यतीति
शङ्काव्यवच्छेदाय तस्यैव जगज्जननजीवननियामकत्वमुक्तम् । तथा चैकमेवेदं
लक्षणमभिन्ननिमित्तोपादानतया अद्वितीयं ब्रह्म उपलक्षयतीत्याहुः । अथ शुद्धं
...