This page has not been fully proofread.

शाङ्कवेदान्तकोशः
 
-
 
घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः । स च भविष्यतीति प्रतीतिविषयः । तत्रैव
घटस्य मुद्गरपातानन्तरं योऽभावः स प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे
नाश एव । न चैवं घटोन्मज्जनापत्तिः । घटध्वंसस्यापि घटप्रतियोगिकध्वंसत्वात् ।
अन्यथा प्रागभावध्वंसात्मकघटस्य विनाशे प्रागभावोन्मज्जनापत्तिः । न चैवमपि यत्र
ध्वंसाधिकरणं नित्यं तत्र कथं ध्वंसनाश इति वाच्यम् । तादृशाधिकरणं यदि चैतन्य-
व्यतिरिक्तं तदा तस्य नित्यत्वमसिद्धम् । ब्रह्मव्यतिरिक्तस्य सर्वस्य ब्रह्मज्ञाननिवर्त्यतया
वक्ष्यमाणत्वात् । ....यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा
वायौ रूपात्यन्ताभावः। सोपि घटादिवद्ध्वंसप्रतियोग्येक । इदमिदं नेति
प्रतीतिविषयोऽन्योऽन्याभावः । अयमेव विभागो भेदः पृथक्त्वं चेति व्यवह्रियते (वे०
प० ६ प०) । श्रीचित्त्सुखमुनिना अभावलक्षणमभावपदार्थश्च निराकृते । यथा - भवतु
वा भिन्नैवानुपलब्धिरनुमानात्, तथापि नाभावः प्रमितिकरणम् । विकल्पासहत्वात् ।
तथा हि - किमुपलब्धेः प्रागभावोऽनुपलब्धिः । उत प्रध्वंसः । किं वान्योन्याभावः
अत्यन्ताभावो वा..... । अपि च यत्राभाव एव लक्षणतो दुर्निरूपः । कुतस्तत्रेदं
प्रमाणमिदं प्रमेयमिति विचारावतारः । तथाहि - कोऽयमभावः । १. भावादन्यो
वा २. भाषत्वानधिकरणं वा ३. भावविरोधी वा ४. भावेन स्वभावप्रत्यासन्नो वा
५. नास्तीतिप्रत्ययविषयो वा ६. प्रतियोगिसापेक्षनिरूपणो वा ७. अस्तीति बुद्धेरविषयो
वा ८. निर्विकल्पकबुद्धेरविषयो वा ९. भावलक्षणरहितो वा । नाद्यः भावस्यापि
भावादन्यत्वेनातिव्याप्तेः ..... (त० प्र० अभावलक्षणनिराकरणे) । एवमेव तत्रैव
भावलक्षणप्रागभावादिलक्षणान्यपि विमृष्टानि । यथा च - घटप्रतियोगिकानां प्रागभाव-
प्रध्वंसाभावान्योन्याभावानां न कदापि घट आश्रयो भवति । घटप्रागभावस्याश्रयो
मृत्पिण्डः । प्रध्वंसस्याश्रयः कपालानि । अन्योन्याभावस्य च पटादिः । केचित्तु
(प्राञ्चः) यत्र भूतले पूर्वं घटादिकं स्थितमपसारितं पुनरानीतं च तत्रोत्पादविनाशशाली
सामयिकनामा चतुर्थः संसर्गाभाव एव प्रतीयते नात्यन्ताभावः इत्याहुः (वै० वि०
९।१।५) । केवलाधिकरणादेव नास्तीति व्यवहारोपपत्तावभावो न पदार्थन्तरमिति
प्राभाकारा: आहुः (दि० १) (त० दी०) । अत्यन्ताभावो द्विविधः । एकः पर्याप्तधर्मा-
वच्छिन्नप्रतियोगिताकः, अपरः अनेकपर्याप्तधर्मावच्छिन्नप्रतियोगिताकः । आद्यो धर्मो
घटादिः। द्वितीय उभावादिः । अयमेव व्यासज्यवृत्तिरित्युच्यते (सि० च० ४)।
 
६२
 
-
 
अभिनिवेशः - यथा अनुभूतादपि मरणादेस्त्रासोऽभिनिवेश: (पा० यो०
सू० ५ - व्या० भा० ) ।
 
-