This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
(ब्र० सू० २ । २ । २२ शा० भा०) । भावप्रतीपा संख्या बुद्धिः प्रतिसंख्या तया निरोधः

प्रतिसंख्यानिरोधः । सन्तमिमसन्तं करोमीत्येवमाकारता च बुद्धेर्भावप्रतीपत्वम् ।

एतेनाप्रतिसंख्यानिरोधोऽपि व्याख्यातः (तत्रैव भाम०)

यथा च - प्रतीपा

विरोधिनी । नन्वन्त्यसन्तानिनो न फलानारम्भकत्वं यतोऽसत्त्वापत्तिः । न च फलारम्भे

सन्तानानुच्छेदः। नहि हेतुफलभावमात्रं सन्तानः । किन्तु सजातीयानां हेतुफल-

भावस्तत्र विशुद्धविजातीयक्षणोत्पत्तावपि सजातीयहेतुफलभावरूपसन्तानो निवर्तते ।

(तत्रैव वे० क० त०) इति बौद्धदार्शनिकाः ।
 
1
 

 
अप्रमा
 
, अप्रमा
प्रमाभिन्ना अप्रमा। स्मृतिव्यावृतं प्रमात्वम्- अनधिगताबाधित

विषयज्ञानत्वम् ।स्मृतिसाधारणं तु अबाधितविषयज्ञानत्वम् । अर्थात् अधिगताबाधितविषय-

ज्ञानत्वम् । यथा शुक्तौ रजतज्ञानम्, रज्जौ सर्पज्ञानमित्यादि (इत्यद्वैते) । अनुभवो

द्विविधः यथार्थः अयथार्थश्च । तत्र अयथार्थानुभवः अप्रमा तल्लक्षणञ्च तदभाववति

तत्प्रकारकोऽनुभवोऽयथार्थः । सैवाप्रमेत्युच्यते । (त०सं०१ख०) (न्यायवैशेषिकादयः)
 
-
 
1-

 
अप्राणः - , अप्राण
क्रियाशक्तिरहितः । यथा - प्राणः क्रियाशक्तिः परमार्थतो न विद्यते

यस्य सोऽप्राणः (ब्र० सू० ११४ वे० क० त०) । यथा च - अप्राणो ह्यमनाः

शुभ्रः (मु० उ० २।१।२)।
 
-
 
-
 

 
अबोधः - , अबोध
बोधाभावोऽधिष्ठानरूपः । अधिष्ठानं तु चितिः । यथा - अबोधो

ज्ञानापनोद्यात्मनाऽभिव्यक्तमज्ञानं तस्य नाशोऽधिष्ठानरूपापत्तिरेवाधिष्ठानं तु

चितिरेवेत्यखण्डार्थपरे वाक्ये एकं पदं मुख्यमितरद्वितीयवृत्तिर्लक्षणावृत्तिरित्यर्थः (सं०

शा० १/२१२ सु० टी० ) ।
 
-
 

 
अभावः - , अभाव
१. देशतः कालतो वस्तुतश्च परिच्छिन्नत्वमभावः । यथा -

अभावः परिच्छिन्नत्वं द्रेशतः कालतो वा वस्तुतो वा (गी० २।१६ म० सू०) ।

यथा च अभावः अविद्यमानता न विद्यते सर्वत्र अव्यभिचारात् इति

अवोचाम (तत्रैव शा० भा० ) । यथा च - अभावो विनाशः (तत्रैव श्रीधर्याम्) ।

२. भावभिन्नत्वम् अभावस्य लक्षणम् । भावत्वं च समवाय एकार्थसमवायान्यतरसम्बन्धेन

सत्तावत्त्वम् । एकार्थसमवायश्च स्वप्रतियोगिकसमवायप्रतियोगित्वस्वप्रतियोगिक-

समवायतादात्म्यान्यतरस्वरूपः स्वं सत्ता (त० सं० गङ्गाटी०) । अद्वैतमते अनुपलब्धिप्रमाणेन

अभावः प्रत्यक्षीक्रियते । स च अभावः चतुर्विधः । यथा - स चाभावश्चतुर्विधः

प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति । तत्र भूतलादौ कारणे कार्यस्य