This page has not been fully proofread.

६०
 
शाङ्करवेदान्तकोशः
 
(ब्र०सू० १ /१ । ४ वे० क० त०) ।२. अपूर्वनियमपरिसंख्याविधिषु अन्यतमोऽ पूर्वविधिः
अप्राप्तप्रापको विधिरपूर्वविधिः । यथा ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादि ।
३. यज्ञादिभ्यो जन्यः अपूर्वः एतन्नामधायकः कश्चन पुण्यविशेषः । यो यज्ञादेर्बहुकालानन्तरं
तिष्ठन् स्वर्गादिकं जनयति । पुरुषस्य कर्मणश्च अयोग्यतां निराकुर्वद् शास्त्रसमर्थित
विधिजन्यं सामार्थ्यमतिशयः योग्यता वा अपूर्व उच्यते । यथा कर्मणः प्रागयोग्यस्य
कर्मणः पुरुषस्य वा योग्यता शास्त्रजन्मा या सा परापूर्वमुच्यते (त० वा० २ । १ । २ ) ।
अधिकारापूर्वः फलापूर्व इत्यपि कथ्यते (पूर्वमीमांसायाम्) ।
 
-
 
अपूर्वता – १ . वेदान्तवाक्यैरेव ब्रह्मसाक्षात्कारः । यथा - प्रकरणप्रतिपाद्यस्याद्वितीय-
वस्तुनः प्रमणान्तराविषयीकरणमपूर्वता (वे० सा०) इत्यद्वैतिनः ।
 
२. अपूर्वनिष्ठो धर्मः । स च उत्पत्त्यपूर्वङ्गापूर्वसमुदायापूर्वफलापूर्वेषु भवति ।
यथा - यागेन अपूर्वं कृत्वा स्वर्गं भावयेत् (शाबर भा० २।१।२ ) ।
 
-
 
अपोढ़म् - तज्ज्ञानरहितम् । यथा - कल्पनापोढत्वेऽपि भ्रान्तत्वाद् घटादि-
प्रत्यक्षस्य पीतशङ्खादिज्ञानवन्न प्रत्यक्षता । (ब्र० सू० २।२।२८ भाम०) अत्र वेदान्त-
कल्पतरौ कल्पना अभिलापः । तदपोढं तदूरहितम् । यद्यपि स्थूलं व्यक्तिज्ञानं व्यक्तौ
सम्बन्धग्रहस्याभावेन शब्दवाच्यत्वाभावात् । तथापि भ्रान्तत्वान्नास्य प्रत्यक्षता ।
कल्पनापोढमध्भ्रान्तमिति प्रत्यक्षलक्षणकरणादित्यर्थः ।
 
अप्रतिमः सादृश्यरहितः अनुपम इति यावत् । यथा- लोकत्रयेऽपि
सर्वस्मिन्नप्रतिमप्रभावः प्रतिमीयते यया सा प्रतिमा न विद्यते प्रतिमा यस्य तव प्रभावस्य
स त्वमप्रतिमप्रभावः (गी० ११/४३ शा० भा० ) । यथा- नहीन्द्रस्य
प्रतिमानमस्त्यन्तर्जातेषूत ( ऋ० वे० ५।१८।४) । यथा च - नार्वागिन्द्रं प्रतिमानानि
(तत्रैव १०/८९/५)।
 

 
अप्रतिष्ठः कर्ममार्गरूपाश्रयरहितः । यथा - अप्रतिष्ठो निराश्रयः
कर्ममार्गरूपाश्रयरहितः (गी० ६।३८ भाष्यो०) । यथा च - योगानिष्पत्तेश्च न मोक्षं
प्राप्नोति । एवमुभयस्माद् भ्रष्टोऽप्रतिष्ठो निराश्रयः (तत्रैव श्रीधर्याम्) । निराश्रयः
(तत्रैव शा० भा०) ।
 

 
अप्रतिसंख्यानिरोधः - बुद्धिपूर्वकं भावविरोधः । यथा - बुद्धिपूर्वकः किल
विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते, तद्विपरीतोऽप्रतिसंख्यानिरोधः