This page has not been fully proofread.

आत्मनिवेदनम्
 
कतिपयवर्षेभ्यः पूर्वमुपनिषद्वाक्यकोशग्रन्थं न्यायकोशग्रन्थमेवंविधमपरं च
कोशग्रन्थमवलोक्य मम मनसीदमागतं यदेवंविधोऽ द्वैतवेदान्तकोशग्रन्थोऽपि सम्मुखी-
भवतु । एतच्च संस्कृतवाङ्मयसंवर्द्धनसंरक्षणसमर्पितजीवनानां सुगृहीतनामधेयानां
पुण्यश्लोकानां गुरुवराणां श्रीमतां गौरीनाथशास्त्रिमहोदयानाम् पुरस्ताद् व्यज्ञापयम् ।
तैश्च पवित्रोदारमहनीयकीर्तिभिः शुभाशीराशिभिः
 
सम्बद्धपुस्तकादिप्रदानैः
संलग्नः । यद्यपीदं
 
प्रोत्साहितश्चाहमस्मिन् शुभशङ्कराद्वैतकोशरचनाकर्मणि
बहुजनसापेक्षमेकाकिमद्विधजनसामर्थ्यशक्यं कर्म न तथापि मया अन्नपूर्णा-
विश्वनाथकृपया गुरुजनानुकम्पया च यथाकथञ्चित्पूरितमिदं कोशरचनाकर्म ।
नात्र मम सामर्थ्यं नात्र किञ्चिन्मम प्रावीण्यम्, तथापि कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं
क्षमाः, वचोविन्यासवैचित्र्यमात्रमत्र विचार्यतामिति श्रीयुतजयन्तभट्टवाक्यं स्मरन्
कथञ्चित् कथञ्चिद् विदुषां पुरस्तादिममुपस्थापयामि । एतदर्थं समये समये मां ये
प्रोत्साहितवन्तः सर्वशास्त्रप्रवीणा धीधनाः श्रीबेङ्कटाचलम्महोदयास्तथा विश्रुताः
श्रीविद्यानिवासमिश्रमहोदया यथाशीघ्रं पूरयतु यथाशीघ्रं प्रकाशयतु इत्येवंरूपं वारं वारं
त्वरार्थं प्रेरितवन्तो येनाहं पूरितवान् । अप्रतिमप्रतिभावन्तः शास्त्रशासनपटवः
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतयः श्रीमण्डनमिश्रमहोदया विश्वविद्यालयद्वारा
प्रकाशनार्थं सर्वविधं प्रबन्धं विधायानुगृहीतवन्तः । अत एतान् प्रति स्वीयां कृतज्ञतां
प्रकाशयन्नात्मानं बहूपकृतं मन्ये । अस्मिन् कठिनकर्मणि ये मम कुटुम्बिजना
इन्दुमती माया नन्दकिशोर-जगदानन्द-विनयविहारि-प्रभृतयः साहाय्यमाचरितवन्तस्तान्
शुभाशीभिः संयोजयन् प्रमोदमनुभवामि । अन्ते च सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
सर्वतोभावेन विभागाभ्युदयकारिकुशलप्रकाशनाधिकारिभ्यः श्रीहरिश्चन्द्रमणित्रिपाठिमहा-
भागेभ्यः समयेन कर्म कर्तुं निष्ठावद्भ्य आनन्दमुद्रणालयाधिकारिभ्यश्च आत्मीयान्
हार्दिकान् धन्यवादान् वितरन् परमं सन्तोषमनुभवामि । अन्ते च ययोर्जनकयोर्भवानी-
विश्वनाथयोः कृपया एतत्सर्वं जातं तदर्थं तच्चरणेषु कोशमिमं समर्पयन् पुनरपि
तयोरनुग्रहं कामये ।
 
वाराणस्याम्
२०५५ वि० सं०
अक्षयतृतीयायाम्
 
विदुषामाश्रवः
 
मुरलीधरपाण्डेयः