2023-03-12 05:00:20 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
तेश्वरस्योदितम्, अधिकारं समाप्यैते प्रविशन्ति परं पदम् । निर्गुणायां विद्याया-
मपवर्गलक्षणं श्रूयमाणं न स्तुतिमात्रतया व्याख्यातुमुचितम् । पौवापर्यपर्यालोचने
भूयसीनां श्रुतीनामत्रैव तात्पर्यावधारणात् (तत्रैव भाम०) । यथा च - पार्वती फणी
बालेन्दुर्भस्म मन्दाकिनी तथा । पवर्गैः पूजितः शम्भुरपवर्गफलप्रदः। २. फलप्राप्तिः।
यथा- अपवर्गे तृतीया (पा० सू० २।३।६) अत्र अपवर्गः फलप्राप्तिरिति वृत्तिः ।
अध्ययनेन वसतीति ।
अपवादः – १ . बाधः भ्रमनिवर्त्तिका यथार्थबुद्धिः । शुक्तौ रजतादिमिथ्याबुद्धौ
निश्चितायां पश्चाज्जायमाना यथार्थबुद्धिः । एवमेव अनात्मनि वस्तुनि अविद्यया
जातस्य आत्मज्ञानस्य विद्योदये सति निवृत्तिः । यथा - अपवादो नाम यत्र कस्मिंश्चिद्
वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायां पश्चादुपजायमाना यथार्था बुद्धिः
पूर्वनिविष्टाया मिथ्याबुद्धेर्निवर्तिका भवति । यथा देहेन्द्रियसंघात आत्मबुद्धि-
रात्मन्येवात्मबुद्ध्या पश्चाद्भाविन्या तत्त्वमसि ( छा० उप० ६।८।७) इत्यनया
यथार्थबुद्ध्या निवर्त्यते । यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथाल्यबुद्ध्या निवर्त्यते ।
एवमिहाप्यक्षरबुद्धयोद्गीथबुद्धिर्निवर्त्यत उद्गीथबुद्ध्या वाक्षरबुद्धिरिति (ब्र० सू०
३।३।९ शा० भा०) । यथा च - अपवादो नाम रज्जुविवर्तस्य सर्पस्य
रज्जुमात्रत्वववस्तुविवर्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् (वे० सा०
४७)। पाणिनीयसूत्रेषु बाध्यबाधकभावो भवति । बाध्यं सूत्रम् उत्सर्गसूत्रं तथा
बाधकसूत्रमपवादसूत्रं कथ्यते । उक्तं च निरवकाशो विधिरपवाद इति ।
अपानः - १. अपानाख्या वृत्तिः । यथा - यदपानित्यपश्वसिति ताभ्यामेवा-
न्तराकर्षतीति वायुं सोऽपानोऽपानाख्या वृत्तिः (छा० उप० १।३।३ शा० भा०) ।
२. शरीरस्थेषु पञ्च वायुष्वेकः = अर्वाग् गमनवान् अपानः पाय्वादिस्थानवर्ती
(वे० प० ७ १०) ।
-
अपीतः - अपि + इतः = प्राप्तः ब्रह्मणि लीनः इति यावत् । यथा - तथान्यत्र
सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति (छा० उप० ६।८।१)
इति (ब्र० सू० ३।२।७ शा० भा०) ।
अपूर्वम् - १. अकार्यम्, कार्यभावरहितम्, नित्यमिति यावत् । तेन अपूर्वं
ब्रह्म भवति । यथा - नास्य पूर्वं कारणं विद्यत इत्यपूर्वम्, अकार्यम् इत्यर्थः