2023-03-12 05:00:20 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
-
-
यदक्षरं जगतो मूलकारणं तद्ब्रह्म । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति ।
२. नवम् । यथा - अपरं भवतो जन्म परं जन्म विवस्वतः (गी० ४।४) । अत्र
श्रीधरी - अपरम् अर्वाचीनं तव जन्म, परं प्राक्कालीनं विवस्वतो जन्म । यथा च-
एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद् विद्वानेतेनैवायतनेनैकतरमन्वेति ।
इति प्रकृत्य श्रूयते - य पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत
( प्र०५ /२/५) इति । किमस्मिन् वाक्ये परं ब्रह्माभिध्यताव्यमुपदिश्यते आहोस्विदपरमिति ।
एतेनैवायतनेन परमपरं चैकतरमन्वेति इति प्रकृतत्वात् संशयः । तत्रापरं ब्रह्मेति प्राप्तम्
(व्र० सू० १ । ३ । १३ शा० भा० ) । यथा च - नहि निरुपाधिकः शारीरो नाम भवति ।
तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः (ब्र० सू० १ । ३ । १२ शा० भा० ) ।
५८
-
अपरा - ब्रह्मविद्या परा ततोऽतिरिक्ता ऋग्वेदादिलक्षणा अपरा विद्या । यथा -
अपि चात्र द्वे विद्ये वेदितव्ये उक्ते च परा चैवापरा च इति । तत्रापरामृग्वेदादिलक्षणां
विद्यामुक्त्वा ब्रवीति अथ परा यया तदक्षरमधिगम्यते इत्यादि (ब्र० सू० १/२/२१
शा० भा०) । यथा च - सकलवेदशिरः सूत्सर्गतः परमात्मधीपरवचःसु परापरभेद-
तोऽवान्तरतात्पर्येणापरविद्याविषयतया भेदे सति परविद्यायामपरविद्यायाञ्च
यथा योगमपुनरुक्तपदान्युपसंहरन्नुभयत्र वाक्यपरिमितं स्वयमेव ज्ञास्यसीति योजना ।
(सं० शा० ३१३ अ० टी०) ।
अपरा प्रकृतिः - संसारबन्धनरूपा । भगवतो द्विविधा प्रकृतिः परा तथा
अपरा । यथा अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं
धार्यते जगत् (गी० ७।५) । अष्टधोक्ता या प्रकृतिरियमपरा निकृष्टा जडत्वात्परार्थत्वाच्च ।
इतः सकाशात् परां प्रकृष्टामन्यां जीवनस्वरूपां विद्धि जानीहि । परत्वे हेतुः- यदा
चेतनया क्षेत्रज्ञरूपया स्वकर्मशरणेदं जगद्धार्यते । (तत्रैव श्रीधरी) अष्टधा प्रकृति:-
-
-
यथा - भूमिरापोऽनलं वायुःखं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना
प्रकृतिरष्टधा । (गी० ७।४) यथा च अपरा न परा निकृष्टाऽशुद्धानर्थकरी
संसारबन्धनात्मिका इयम् (गी० ७।५ शा० भा०) । यथा च या प्रागष्टधोक्ता प्रकृतिः
सर्वा चेतनवर्गरूपा सेयमपरा निकृष्टा जडत्वात् संसारबन्धनरूपत्वाच्च (तत्रैव म०
सू०) । यथा च अपरा निकृष्टा अशुद्धत्वात् अनर्थकरत्वात् संसारस्वरूपत्वात्
बन्धनात्मकत्वात् इयमष्टप्रकारा इतोऽस्या अन्याम् (तत्रैव भा० ) ।
अपबर्गः – १ . कैवल्यसिद्धिः । यथा - तस्मादैकान्तिकी विदुषः कैवल्यसिद्धिः
(ब्र० सू० ३।३।३२ शा० भा० ) । यथा च - राद्धान्तस्तु विद्याकर्मस्वनुष्ठानतोषि-