2023-03-12 05:00:20 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
पूर्वकमभिहितान्वयवाद एव श्रेयानिति प्रत्यपादि । यथा- तथा हि स्वार्थपरित्यागे
विशिष्टसाध्यप्रतीत्यभावादेवाविघातकत्वात् अपरित्यागे च तत्रैवानैकान्तिकत्वात्
मुख्यार्थबाधोपाधिप्रयुक्तत्वाच्च स्वार्थपरित्यागस्य इह च बाधाभावान्न स्वार्थपरित्या-
गानुमानं तस्मादभिहितान्वयवाद एव श्रेयान् इति केचिदाचार्याः । न चैवमपसिद्धान्तः ।
भाष्यकारसम्मतत्वात् । तथा च समन्वयसूत्रे वेदान्तवाक्यानि प्रस्तुत्य भाष्यकारः
प्रतिपादयति स्म - न च तद्गतानां पदार्थानां ब्रह्मस्वरूपविषये निश्चिते समन्वये
ऽवगम्यमानेऽर्थान्तरकल्पना युक्ता । श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । तत्र च
पदार्थानामेवान्योन्यान्वयप्रत्यायकता प्रतीयते । मण्डनमिश्रादिभिरप्यङ्गीकृतत्वात् ।
पदार्थान्तरतुल्यत्वाद् विध्याकाङ्क्षानिबन्धनः । न संसर्गः पदार्थानां स्वशब्देस्तु
प्रदर्शितः। सम्बन्धयोग्यरूपेण तस्मात् सम्बन्धभागिनः । विशिष्टार्थप्रयुक्ता हि
समभिव्याहृतिर्जन इति । व्यवहारे भट्टनय इत्यङ्गीकारात् । भट्टपादैश्च वाक्यार्थस्य सर्वत्र
लाक्षणिकत्वस्वीकारात् वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति च स्थितिरिति ।
तस्मात्पौरुषेयवाक्येभ्य इवापौरुषेयेभ्यो वेदान्तवाक्येभ्यो लक्षणया यथोक्तलक्षणं
ब्रह्म सिद्धयतीति सिद्धम् (त० प्र० १ प० ) । यथा च अन्विताभिधानवादिनां
परदृष्टिपदजस्मृतिद्वये सति पदयुगलात् प्रतीतेः संसर्गबोधस्य समुद्भवः स्यादिति
(सं० शा० १ । ३८५ अ० टी०, तत्रैव १ । १३१ अ० टी० तथा सु० टी०) । अद्वैतसिद्धौ
द्वितीयपरिच्छेदे अखण्डार्थलक्षणोपपत्तावप्येतदुक्तम् । अत्र त्रयो दोषा अथवा
गौरवम् - १. कार्यान्विते. शक्ति: २. इतरान्विते शक्तिः । ३. अन्वितेऽर्थे च शक्तिः ।
(उत्तमवृद्धमुखाद् गामानय श्रुत्वा गवार्थान्विते शक्तिग्रहे जाते अश्वमानय इति
श्रुत्वा अश्वानयनरूपार्थे शक्तिग्रहे क्लिष्टकल्पना ।
-
५७
-
अपदः – ब्रह्मविद् । यथा - सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः । देवा अपि
मार्गे मुह्यन्त्यपदस्य पदैषिणः इति (ब्र० सू० ४।२।१४ शा० भा०) । पद्यते इति
पदं गन्तव्यम् अन्यद् यस्य नास्ति स ब्रह्मविद् अपदः । ब्रह्मविदो मार्गे ब्रह्मप्राप्तिसाधने
ज्ञाने ये पदैषिणः निष्ठेच्छवः तेऽपि देवा उत्कृष्टाः, किमु तन्निष्ठाः, किन्तु परं मुह्यन्त्यत्र
मन्दभाग्या इत्यर्थे स्मृतिं योजयति पदैषिणोऽपीति (तत्रैव वे० क० त०) ।
-
अपरम् - १. परम् उत्कृष्टम्, अपरम् निकृष्टम् । ब्रह्म द्विविधं परं तथा अपरम् ।
परं शुद्धं ब्रह्म अपरं ब्रह्म जीवः । यथा - अक्षरं ब्रह्म परमं स्वभावोऽध्यात्म उच्यते
-
( ८ । ३) । अत्र श्रीधरी - न क्षरति न चलतीत्यक्षरम् । ननु जीवोऽप्यक्षरस्तत्राह परमं