This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
अन्वयव्यतिरेकि - , अन्वयव्यतिरेकिन्
नैयायिकाभिमत एकोऽनुमानप्रकारो लिङ्गभेदश्च । यथा -

लिङ्गं त्रिविधम् अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण

च व्याप्तिमदन्वयतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र यत्र धूमस्तत्राग्निरिति

अन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्यतिरेकव्याप्तिः

(त० सं० अ० ख०)
 
-
 

 
अन्वयि - , अन्वयिन्
अनुमानप्रकारः । अद्वैतवेदान्ते अन्वयिरूपमेवानुमानम् । यथा -

तच्चानुमानमन्वयिरूपमेकमेव न तु केवलान्वयि । सर्वस्यापि धर्मस्यास्मनुमते

ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवला-

न्वयित्वस्यासिद्धेः (वे० प० २ प०) ।
 
-
 

 
अन्विताभिधानम्, अन्विताभिधान
शाङ्करवेदान्ताभिमताखण्डार्थबोधार्थं पक्षद्वयम् १. अभिहिता-

न्वयवादः २. अन्विताभिधानवादश्च । अभिहितान्वयवादे प्रथमं पदेभ्यस्तदर्था

उपतिष्ठन्ति । ततः परम् आकाङ्क्षायोग्यतासन्निधिबलात् तात्पर्यानामशक्त्या

तेषामर्थानां परस्पररूपो वाक्यार्थः समुल्लसति इति श्रीकुमारिलभट्टप्रभृतीनां मतम् ।

अस्मिन् मते पदे पदार्थानुभावकशक्तिरेका । यया पदार्थानामनुभवो जायते । किन्तु

अयमनुभवो न स्मृतिर्नाप्यनुभवः इति अभिधाप्रदेन व्यवह्रियते । एवं च पदैः पदार्था

अभिधीयन्ते । अभिहितेषु च पदार्थेषु एकाशक्तिः । या स्वरूपसती वाक्यार्थमनु-

भावयति । अत्र अभिहिता: पदार्था एव वाक्यार्थं प्रमापयन्ति । न वाक्यं वाक्यार्थं

प्रमांपयति । पदद्वारकं परम्परया जनकत्वमादाय वाक्यस्यापि प्रमाणत्वेन व्यवहारः ।

उक्तं च श्लोकवार्त्तिके सप्तमे वाक्याधिकरणे । अन्विताभिधानवादे अभिधाशक्त्या

पदेभ्योऽन्विता एव पदार्था उपतिष्ठन्ति । अतः परं पदार्थानां परस्परसम्बन्धरूपो

वाक्यार्थः समुल्लसति इति श्रीप्रभाकरगुरुप्रभृतीनां मतम् । अस्मिन् पक्षे पदैः पदार्थानां

स्मरणं स्मृतानां पदार्थानां च संसर्गोऽपि पदैरेव अवगम्यते । अत्र पदे शक्तिद्वयम्-

एका स्मारिकाशक्तिः या ज्ञायमानैव पदार्थं स्मारयति । अपरा अन्वयानुभाविका

शक्तिः या तु स्वरूपसती वाक्यार्थमन्वयं गमयति । अस्मिन् पक्षे वाक्यमेव वाक्यं

प्रमापयति । प्रथमपक्षे तात्पर्या वृत्तिः कल्पनीया भवति । द्वितीयपक्षे तात्पर्यवृत्तेर्नावश्यकता ।

प्रथमपक्षे वाच्यार्थो वाक्यार्थश्च परस्परं भिन्नः द्वितीयपक्षे वाच्यार्थ एव

वाक्यार्थस्तथा तात्पर्यवृत्तेरावश्यकता च न भवति । श्रीमण्डनमिश्रवाचस्पतिमिश्र-

चित्सुखाचार्यप्रभृतयोऽभिहितान्वयवादमाश्रित्य अखण्डार्थबोधं समर्थयन्ति ।

खण्डनखण्डखाद्यस्य विद्यासागरीटीकायां विवेचितमिदम् । श्रीचित्सुखाचार्यै-

रभिहितान्वयवादेऽन्विताभिधानवादे च शक्तित्रयकल्पनादिलाघवगौरवविवेचन-