This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
-
 
विपरीतख्यातिरेवेति । ननु च विपरीतख्यातिरपि प्रतिभासविरोधान्न युक्तेति न
अभिप्रायापरिज्ञानात् (न्यायभूषणे ) । यथा च - स्वरूपेण मरीच्यम्भो मृषा
वाचस्पतेर्मतम् । अन्यथाख्यातिरिष्टास्येत्यन्यथा जगृहुर्जना: (ब्र० सू० उपो० भाम०) ।
अन्योऽन्यम् - अन्यच्च अन्यच्चेत्यन्योऽन्यं परस्परमित्यर्थः ।
 
-
 
अन्योऽन्याध्यासः - अन्यस्मिन् अन्यप्रतिभासनम् । अध्यासो नाभ परत्र
पूर्वदृष्टावभासः । विस्तरस्तु अध्यासशब्दे द्रष्टव्यः । यथा - अन्योन्यार्थाध्यासे मिथुनी-
करणमित्यर्थः । प्रत्यकूपरागुरूपं ह्यन्योन्यात्मकमन्योन्यधर्मवच्चाध्यस्तं तस्य मिथुनी-
करणं नाम ज्ञानाध्यासस्तदुभयावच्छिन्नमेकं ज्ञानमिति यावत् (सं० शा० १/२१
सु० टी०) ।
 
अन्योऽन्याभावः - अन्यस्य अन्यस्मिन्नभावः, घटः पटो नेत्युदाहरणम् ।
यथा - इदमिदं नेति प्रतीतिविषयोऽन्योन्याभावः । अयमेव विभागो भेदः पृथक्त्वं
चेति व्यवह्रियते । भेदातिरिक्तविभागादौ प्रमाणाभावः । अयं चान्योन्याभावोऽधिकरणस्य
सादित्वे सादिः, यथा घटे पटभेदः । अधिकरणस्यानादित्वेऽनादिरेव, यथा जीवे
ब्रह्मभेदः, ब्रह्मणि वा जीवभेदः । द्विविधोऽपि भेदो ध्वंसप्रतियोग्येव, अविद्याया निवृत्तौ
तत्परतन्त्राणां निवृत्त्यवश्यम्भावात् (वे० प०६ प०) । न्यायानुसारं यथा- तादाल्य-
सम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । यथा घटः पटो नेति (त०सं०) ।
अद्वैतिभिरेतल्लक्षणं निराक्रियते । यथा - तादात्यप्रतियोगिकोऽभावोऽन्योन्याभाव
इत्यपि न । घटपटयोस्तादात्यस्यैवाप्रमितत्त्वेन प्रमितिनिषेधवादिनस्तन्निषेधस्या-
शक्यत्वात् । प्रमिते घटे प्रमितपटत्वप्रतिषेधे च भूतले घटनिषेधवत्संसर्गाभावापत्तेः ।
प्रतियोग्यनिष्ठो नित्योऽभावोऽन्योन्याभाव इत्यपि न विकल्पानुपपत्तेः । प्रतियोगि
शब्देन किमन्यदुच्यते । किं वा निरूपकः । विरोधो वा । नाद्यः धर्मिणोऽपि स्वस्मादन्य-
त्वेनासम्भवित्वात् । ...अस्तु वा यः कश्चिदविचारितरमणीयः प्रतियोगी । तथापीदं
भवान् पृष्ठो व्याचष्टाम्- किमेको जगति अन्योन्याभावः किं वा बहवः
(त० प्र० अन्यो० नि०) ।
 
अन्वयः - १. सदा सहचरः तत्सत्त्वे तत्सत्त्वमिति । २. साधनसत्त्वे साध्यसत्त्वम्
अन्वयः । ३. काव्ये कर्तृकर्मक्रियाविशेषणादीनां यथाक्रमं प्रतिपादनमन्वयः ।
 
अन्वयव्यतिरेकः - तत्सत्त्वे तत्सत्त्वमन्वयः । तदभावे तदभावो व्यतिरेकः ।
तथा साधनाभावे साध्याभावो व्यतिरेकः ।