This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
शालिबोधादेव सम्पद्येत नान्यथा । इदं रजतत्वेन जानामीत्यनुव्यवसायप्रत्यक्षं नेदं
रजतमिति बाधज्ञानानन्तरं इदं रजतत्वेनावेदिषम् इत्यनुभवश्च अन्यथाख्यातौ
प्रमाणम् । अत एवोक्तं ब्रह्मसिद्धौ तस्मादवश्यं प्रतिषेध्यप्राप्तये विपरीतख्याति-
रुपासनीया (ब्र० सि० ब्रह्मकाण्डे ) । इदं रजतमितिभ्रमे इदमर्थः इन्द्रियसंयोगेन
लौकिकसन्निकर्षेण भासते । रजतं च भासमानं नान्तरम् । तस्याप्रामाणिकत्वात् ।
नाप्यन्तमसत् । तस्येन्द्रियसन्निकर्षाभावेन प्रत्यक्षे भानायोगात् । नापि तत्कालोत्पन्नं
रजतम् । रजतावयवसामग्रीविरहेण रजतोत्पत्तेरसम्भवात् । नापि रजतसंस्कारसहकृता-
विद्याकार्यं नेदं रजतमिति ज्ञानबाध्यं चानिर्वचनीयं रजतम् । जलबुद्बुदोत्पतिविनाशवत्
तादृशप्प्रातिभासिकरजतोत्पादनाशयोरननुभवेन तादृशे रजते प्रमाणाभावात् । किन्तु
आपणादौ विद्यमानं परमार्थरजतमेव । न च तेन चक्षुषः संयोगाभावात् कथं तद् रजतं
चाक्षुषभ्रमे भासेतेति वाच्यम् । द्रव्यविषयकलौकिकचाक्षुषप्रमायामेव चक्षुः संयोगस्य
हेतुत्वात् ! तदभावेऽपि उपनयवशात् चाक्षुषभ्रमे तस्य भानाविरोधात् । उपनयश्च
संस्कारः । तस्य सर्वसम्मतत्वात् । रजतभ्रमस्य संस्कारजन्यत्वे स्मृतित्वापत्तिरिति यदि
मन्यते, तदा रजतस्मरणमेव ज्ञानलक्षणात्मकः अलौकिकः सन्निकर्षः । आवश्यकश्च
ज्ञानलक्षणाभ्युपगमः । कथमन्यथा चन्दनखण्डदर्शनमात्रेण सुरभिश्चन्दनखण्ड इति
चाक्षुषप्रत्यक्षमुपपद्यते (वी० सुब्रह्मण्यशास्त्रिणः ख्यातितत्त्वसमीक्षाग्रन्थे ) । यथा च -
अत्र अद्वैतिनः प्रत्यवतिष्ठन्ते प्रत्यक्षसामान्यं प्रति विषयेन्द्रियसंयोगस्य हेतुत्वात्
आपणस्थरजते इन्द्रियसंयोगस्याभावात् तत्र न चाक्षुषप्रत्यक्षं जायेत । न च लौकिकप्रमारूप-
प्रत्यक्षे इन्द्रियसंयोगः कारणं भ्रमादौ तु उपनयः कारणमिति वक्तव्यम् । तादृशहेतुता-
कल्पने गौरवात् तथा निर्विकल्पकप्रत्यक्षसाधारण्येन चोक्तहेतुताया असम्भवात् ।
अपरं च ज्ञानलक्षणाप्रत्यासत्तिर्नाङ्गीक्रियते । सुरभि चन्दनम् इत्यत्र चन्दनखण्डं पश्यामि
सौरभं स्मरामि इत्येवानुभवः । अतो ज्ञानलक्षणाप्रत्यासत्तेर्नावश्यकता । तथा ज्ञानस्य
प्रत्यासत्तित्त्वे तु अनुमानोच्छेदापत्तिः स्यात् । अपरं च पूर्वं रजतत्ववत्त्वेन रजतत्वावच्छेदकत्वेन
वा अनवगते शुक्तिशकले रजतज्ञानस्य सन्निकर्षत्वं न कदापि सम्भवति। नैयायिकैः
भ्रमस्थले व्यधिकरणप्रकारत्वमिष्यते । एतच्च अन्यत्र कुत्रापि नास्ति । अतः असत् ।
असतश्च सन्निकर्षाभावेन अप्रत्यक्षता । तस्माद् इदं रजतमित्यादिभ्रमस्थले अनिर्वचनीयं
मायिकं तादृशवैशिष्टयं भासते इत्येव वक्तव्यम् । यथा च - नाप्यन्यत्र स्थितस्य
रूप्यस्य भानाद् अन्यथाख्यातिः । अत्यन्तासत इवान्यत्र सतोऽप्यपरोक्षप्रतीतिप्रयोजक-
सन्निकर्षानुपपत्तेस्तुल्यत्वात् (अ०सि०१ प०) ।यथा च - ननु तर्हि अन्यथा प्रतिभासाद्
 
-
 
५४