This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
-
 
देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं देवानाम् (बृ० उ०
३ । १ ।१०) इति (ब्र० सू० ३।१।७) । २. ब्रह्म । यथा - अन्नं ब्रह्मेति व्यजानात् ।
अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं
प्रयन्त्यभिसंविशन्तीति (तै० उ० ३ । २) । यथा च - अन्नं न निन्दयात् । तद्व्रतम् ।
(तै० उ० ३।७) ।
 
अन्नमयः
 
प्रचुरार्थे मयट् । तेन अन्नप्रचुर इत्यर्थः । यथा- आनन्द-
मयोऽभ्यासादिति ब्रह्मसूत्रम् (१।१।१२) । यथा वा ब्राह्मणमयो ग्रामस्तद्वत्
अन्नमयो यज्ञ इति ।
 
-
 
-
 
अन्नमयम् - शारीरं ब्रह्म । अन्नमयादिशरीरपरम्परयोपचरितोऽयं शब्दः
शरीरस्थिते ब्रह्मणि । यथा - शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया
प्रदर्श्यमानत्वात्, न पुनः शारीरत्वं संसारिवत् (ब्र० सू० १/१/१२ शां० भा० ) ।
 
अन्नमयकोशः – शरीरत्रयं भवति - कारणशरीरम्, सूक्ष्मशरीरम् (लिङ्गशरीरम्)
स्थूलशरीरं च । एतदर्थं पञ्चकोशाः सिद्धान्तिताः- आनन्दमयकोशः विज्ञानमयकोशः
मनोमयकोशः प्राणमयकोशः अन्नमयकोशः । एतेषु स्थूलशरीरमन्नमयकोश उच्यते ।
यथा – अत्रापि चत्रुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया वनवज्जलाशयवद्वा
समष्टिः वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत् समष्ट्र्युपहितं चैतन्यं वैश्वानरो
विराडिति चोच्यते सर्वनराभिमानित्वाद् विविधं राजमानत्वाच्च । अस्यैषा समष्टिः
स्थूलशरीरमन्नविकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति
च व्यपदिश्यते (वे० सा० ) ।
 
अन्यथाख्यातिः - प्रसिद्धासु पञ्चसु ख्यातिषु (विभ्रमेषु) आत्मख्यात्यसत्ख्यात्यख्या-
त्यन्यथाख्यात्यनिर्वचनीयख्यातिषु अन्यतमा अन्यथाख्यातिर्नैयायिकानाम् । यथा- शुक्ति-
शकलं रजतत्वेनावगाह्य इदं रजतमिति प्रत्यक्षविभ्रमो जायते । अत्र शुक्तिविशेष्यकं
रजतत्वप्रकारकं ज्ञानं जायते । तेन प्रत्यक्षेण ज्ञानस्य शुक्तिनिष्ठविशेष्यतानिरूपित-
रजतत्वनिष्ठप्रकारताशालित्वं सिद्ध्यति । अत्र मते सन्मात्रविषयकं विशेष्यावृत्तिप्रकारकं
व्यधिकरणप्रकारकं ज्ञानमन्यथाख्यातिरित्युच्यते । अतो व्यधिकरणनिष्ठप्रकारता-
शालित्वेन अन्यधर्मावगाहनेन अन्यथाख्यातिरिति शब्दयते । एवं च पुरोवर्तिनि
परिस्फुरति वस्तुनि रजतार्थिनां प्रवृत्तिः रजतमिदमिति तादात्यव्यवहारश्च
भवति । एतच्च रजतप्रकारतानिरूपिततादात्यसंसर्गतानिरूपितेदन्त्वावच्छिन्नविशेष्यता-