This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
-
 
अन्तर्धानम्, अन्तर्धान
१ . गोपनम् । २. उपधानम् । यथा उपाधानाद् अन्तर्दधते । अत्र

स्वनिष्ठो योऽन्यकर्तृकदर्शनविषयताविरहस्तदुद्देश्यको व्यापारः, स्वनिष्ठप्रत्यक्ष-

विरोधिव्यापार इति यावत् धात्वर्थः।
 
५२
 

 
अन्तःप्रज्ञः - , अन्तःप्रज्ञ
अन्त प्रबुद्धः बहिर्विषयनिरपेक्षज्ञानः । यथा - इन्द्रियापेक्षयाऽन्तः-

स्थत्वान्मनसस्तवासनारूपा च स्वप्ने प्रज्ञा यस्येत्यन्तः प्रज्ञः (मा० उ० का० १ ४

शा० भा० ) । एतद्भिन्नः बहिष्प्रज्ञो भवति ।
 

 
अन्तर्यामी - , अन्तर्यामी
१. सर्वप्राणिनामन्तः यो यमयति नियन्त्रयति । स परमात्मा ।

यथा एवं प्राप्त इदमुच्यते योऽन्तर्याम्यधिदैवादिषु श्रूयते स परमात्मैव स्यान्नान्य इति ।

कुतः तद्धर्मव्यपदेशात् (ब्र० सू० १ । २ । १८ शा० भा०) । यथा च एवं प्राप्तेऽभिधीयते-

देहेन्द्रियाभिनियमे नास्य देहेन्द्रियान्तरम् । तत्कमेपार्जितं तदविद्यार्जितं जगत् ।

... तथा च सर्वं विकारजातं तदविद्याशक्तिपरिणामस्तस्य शरीरेन्द्रियस्थाने वर्तत इति

यथायथं पृथिव्यादिदेवतादिकार्यकारणैस्तानेव पृथिव्यादिदेवान् शक्नोति नियन्तुम्

एवं चाधिदेवतादिष्वेकस्यैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति ( तत्रैव

भाम०) । २. सर्वनियन्ता । यथा - एष हि सर्वस्य सर्वभेदावस्थो ज्ञातेत्येष सर्वज्ञ

एषोऽन्तर्याम्यन्तरमनुप्रविश्य सर्वेषां भूतानां नियन्ताप्येष एव (मा० उ० का०

१।४ शा० भा०) ।
 
……..
 
-
 
-
 

 
अन्धः - , अन्ध
१. कष्टप्रदम् अज्ञानम् । यथा- अन्धेनार्दनात्मकेनाज्ञानेन (ई०

उ० म० ३ शां० भा०) २. नेत्रहीनः ।
 

 
अन्नम्, अन्न
१. देवानां भोग्यम् - गौणीवृत्त्या अयमर्थः । यथा - एष सोमो

राजा तद् देवानामन्नं तं देवा भक्षयन्ति (छा० उप० ५/१०/४) (ब्र० सू० ३।१।६) ।

यथा च – भाक्तमेषामन्नत्वं न मुख्यम् । अन्नशब्दश्चोपभोगहेतुत्वसामान्यादनन्ने-

ऽप्युपचर्यमाणो दृश्यते । यथा विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति ।

तस्मादिष्टस्त्रीपुत्रभिन्नभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत् सुखविहारिणां

देवानां तदेवैषां भक्षणमभिप्रेतं न मोदकादिवच्चर्वणं निगरणं वा "न ह वै देवा अश्नन्ति

न पिबन्त्येदेवामृतं दृष्ट्वा तृप्यन्ति (छा० उप० ३।६।१ ) । इति च देवानां चर्वणादि-

व्यापारं वारयति । तेषां चेष्टादिकारिणां देवान् प्रति गुणभावोपगतानामप्युपभोग

उपपद्यते राजोपजीविनामिव परिजनानाम् । अनात्मवित्वाच्चेष्टादिकारिणां देवोभोग्य-

भाव उपपद्यते । तथा हि श्रुतिः - अनात्मविदां देवोपभोग्यतां दर्शयति । अथ योऽन्यां
 
-
 
….…...