2023-03-12 05:00:19 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
५१
तत्राभिव्यज्यते ।
तस्य
तस्य विभागस्यान्तःकरणस्यातिस्वच्छत्वाच्चैतन्यं
चाभिव्यक्तस्य चैतन्यस्यैकत्वेऽपि अभिव्यञ्जकान्तःकरणभेदात् त्रिधाव्यपदेशो
भवति । कर्तृभावावच्छिन्नश्चिदंशः
प्रमाता । क्रियाभागावच्छिन्नश्चिदंशः
प्रमाणम् । विषयगताभिव्यक्तियोग्यत्वभागावच्छिन्नश्चिदंशः प्रमितिः । प्रमेये
तु विषयगतं ब्रह्मचैतन्यमेवाज्ञातम् । तदेव च ज्ञातं तत्फलम् । मनस इन्द्रियत्वे
प्रत्यक्षप्रयोजके जाते परोक्षप्रिया इव हि देवा: प्रत्यक्षद्विषः (बृ० उ० ४ । ४ । २)
इति श्रुतिर्विरुध्येत ।
अन्तःकरणवृत्तिः – तैजसस्यान्तःकरणस्य चक्षुरादिना घटादिविषयदेशं गत्वा
घटाद्याकारेण परिणामः । यथा - तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्
प्रविश्य तवदेव चतुष्कोणादयाकारं भवति । तथा तैजसमन्तःकरणपि चक्षुरादिद्वारा
निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणभते । स एव परिणामो
वृत्तिरित्युच्यते । (वे० प० १ ५०) अनया वृत्त्यैव प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्येन
सहाभेदो जायते । ततश्च घटादिविषयप्रत्यक्षं भवति । चैतन्यं च त्रिविधं भवति -
विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं च । अन्तःकरणवृत्तिरेव इन्द्रियजन्यं ज्ञान-
मुच्यते । यथा - इन्द्रियजन्यज्ञानं चान्तःकरणवृत्तिः (व० प० ७ प०) । साकार-
द्रव्यसम्बद्धान्तःकरणस्य द्रव्याकारसमानाकारता तु भवितुमर्हत्येव किन्तु आकार-
रहितैर्गुणैः सम्बद्धस्वान्तःकरणस्यापि गुणाकारसमानाकारता भवति । यतो हि गुणादीनां
द्रव्याभिन्नत्वं स्वीकृतम् । यथा शङ्कराचार्येण भाष्ये उक्तम्- तस्माद् द्रव्यात्मकता
गुणस्य । एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मता व्याख्याता ।
-
-
अन्तःकरणवृत्तेः प्रयोजनद्वयम् । अन्तःकरणवृत्तिरावरणभङ्गार्था इत्येकं मतं
तथा सम्बन्धार्था चिदुपरागर्था वा इत्यपरं मतम् । यथा - आवरणभङ्गजनकत्वमित्या-
वरणाभिभवार्था वृत्तिरुच्यते । .... एवं जीवस्यापरिच्छिन्नत्वेऽपि वृत्तेः सम्वन्धार्थत्वं
निरूपितम् (वे० प० ७ १०) । यथा च - अत्र च यस्मिन् पक्षेऽन्तःकरणावच्छिन्नो
जीवः यस्मिंश्च पक्षे सर्वगतोऽसङ्गोऽविद्याप्रतिबिम्बो जीवस्तत्रोभयत्रापि प्रमातृचैतन्यो-
परागार्था विषयगतचैतन्यावरणभङ्गार्था चान्तःकरणवृत्तिः । यस्मिंश्च पक्षे अविद्यावच्छिन्नः
सर्वगतो जीव आवृतस्तस्मिन् पक्षे जीवस्यैव जगदुपादानत्वेन सर्वसम्बद्धत्वा-
दावरणभङ्गार्थावृत्तिरिति विवेकः । ननु चिदुपरागार्था वृतिरिति पक्षे स्वतोऽन्तः-
करणसम्बद्धानां धर्माधर्मादीनां ब्रह्मणश्च वृत्तिमन्तरेण सर्वदा भानं स्यात् । नं
स्यात्, चैतन्यस्य तत्तदाकारत्वाभावात् (सि० वि०) ।
X-