This page has not been fully proofread.

शावेदान्तकोशः
 
घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते (तत्रैव ) । शाङ्कराद्वैतेऽन्तःकरण-
रूपस्य मनस इन्द्रियत्वं विवरणप्रस्थाने नाङ्गीक्रियते । यथा विवरणानुसारेण वेदान्त-
परिभाषायाननिन्द्रियत्वं साधितं तथानुपदमुद्धृतम् । इन्द्रियाणां मनश्चास्मि इति
गीतावचनानुरोधादपि मनस इन्द्रियत्वं न । यतो हि तस्मिन्नेव प्रसङ्गे नक्षत्राणामहं शशी
इत्यप्युक्तम् । वस्तुतश्चन्द्रो नक्षत्रं नास्ति । अतोऽत्र लक्षणया व्यवहर्तव्यम् । एतस्माज्जायते
प्राणो मनः सर्वेन्द्रियाणि चेति मुण्डकश्रुतिरपि अनिन्द्रियत्वे मानम् । ब्र० सू० शा०
भा० भामत्यां च मनस इन्द्रियत्वमपि लक्ष्यते । यथा- ननु मनसोऽप्येवं सति
वर्जनमिन्द्रियत्वेन प्राणवत्स्यात् "मनः सर्वेन्द्रियाणि च" इति पृथग् व्यपदेशदर्शनात् ।
सत्यमेतत् । स्मृतौ त्वेकादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत् संगृह्यते । प्राणस्य
त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति (ब्र० सू० २।४।१७ शा० भा० ) । अत्र
भामत्यां मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलिवर्द-
न्यायेन । अथवा इन्द्रियाणां वर्तमानमात्रविषयत्वात् मनसस्तु त्रैकाल्यगोचरत्वाद्
भदेनाभिधानम् । एकस्मिन् स्थले विवरणकारश्चित्तमिन्द्रियमित्यप्यलिखत् - चित्तेन्द्रियं
पारोक्ष्यविघ्नमनिमित्तप्रतिबन्धनिरासेन शब्दादेव अपरोक्षनिश्चयनिमित्तं भवतीति
गम्यते । लोके तु अतिसूक्ष्मतरवस्तुनिर्धारणे चित्तैकाग्र्यविशेषापेक्षाया दर्शनात् । एवं
च ते त्वौपनिषदम् इति तद्धितप्रत्ययेन ब्रह्मावगतिहेतुत्वं शब्दस्य दर्शयितमुपपन्नं
भवति (प० पा० वि० १ घ०) । अन्तःकरणस्य शक्तिद्वयम् ज्ञानशक्तिः क्रियाशक्तिश्च ।
तत्र सुषुप्तौ ज्ञानशक्तियुक्तोऽहं विनश्यति । यथा - अन्तःकरणस्य द्वे शक्ती-
ज्ञानशक्तिः क्रियशक्तिश्च । तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः (वे०
प० ७ प०) यथा च - यद्यपि महाप्रलये नान्तःकरणादयः समुदाचारवृत्तयः सन्ति
तथापि स्वकारणेऽनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण कर्म विक्षेपा-
विद्यावासनाभिः सहावतिष्ठन्त एव (ब्र० सू० १ ।३।३० भाम०) । यथा च सर्वोऽपि
हि प्रपञ्चस्तदानीमविद्याचित्रभित्तौ संस्कारमात्रशेषं स्थित्वा पुनरुद्भवतीत्यङ्गीक्रियते
(ब्र० सू० 91919 अध्यासभाष्ये वे० क० तरौ ) । श्रीमधुसूदनसरस्वती तु
सिद्धान्तबिन्दौ (१) एवं प्रकारेण मनसो रूपं भेदं कार्यं च निरूपितवान् - न च
सावयवत्वात् परिणममानो देहाभ्यन्तरे घटादौ च सम्यग् व्याप्य देहघटयोर्मध्येऽपि
चक्षुर्वदवच्छिन्नो व्यवतिष्ठते । तत्र देहावच्छिन्नान्तःकरणभागोऽहङ्काराख्यः
कर्तेत्युच्यते देहविषयमध्यवर्ती दण्डायमानो वृत्तिज्ञानाख्यः क्रियेत्युच्यते ।
विषयव्यापकस्तद्भागो विषयस्य ज्ञानकर्मत्वसम्पादकमभिव्यक्तियोग्यत्वमित्युच्यते ।
 
-
 
५०
 
-