This page has not been fully proofread.

[२]
 
अत्र तु यथालभ्यशाङ्करवेदान्तग्रन्थान् तत्सम्बद्धग्रन्थांश्चान्यान् आधृत्य तेभ्यश्च
गूढार्थशब्दान् कांश्चिप्रसिद्धार्थशब्दांश्चोद्धृत्य तान् वर्णक्रमेण संस्थाप्य, अर्थान् विशदी-
कृत्याकरग्रन्थवचनप्रमाणैः सम्पोष्य परिष्कृत्य च परिनिष्पादितोऽयं शाङ्कुरवेदान्तकोशग्रन्थः ।
काञ्चीपूज्यशङ्कराचार्यस्वामिभिः सम्पोषितो महामहिमराष्ट्रपतिभिश्च सम्मानितः शाङ्कर-
वेदान्तस्याधिकारी विद्वान् श्रीमुरलीधरपाण्डेयः । तेनायं सङ्ग्रथितो ग्रन्थो दार्शनिकंविदुषां
चेतांसि अवश्यमेवावर्जयिष्यतीति द्रढीयान् मे विश्वासः । अनेनैव विश्वासेन श्रद्धया
च विदुषां कृते उपायनीकुर्वन्निमं ग्रन्थं भृशं सन्तोषमुपलभे । मत्कृतेऽयं सौभाग्यस्य
विषयो वर्तते यत् प्रायो गतेभ्यस्त्रिदशकेभ्यो डॉ०मुरलीधरपाण्डेयैः सह विभिन्नेषु
संस्थानेषु कार्यनिर्वहणसौभाग्यं मया सम्प्राप्तम् । विभिन्नेषु विद्यापीठेषु, अत्रापि च
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतित्वेन मया तेषां सेवा, परामर्श:, निर्देशाश्च
सम्प्राप्ताः । सर्वेऽप्येते प्रसङ्गा अपूर्वस्य गौरवस्य विषयाः । स्वकीयया विद्वत्तया,
साधनया, गरिम्णा, विद्यामहिम्ना च सदा ते मम समस्तस्यापि परिवारस्य सर्वासां
संस्थानां च कृते मार्गदर्शकत्वेन विराजन्ते । सेयं सौभाग्यपरम्परा प्रतिदिनं संवर्द्धमाना
वर्तत इति भगवतः काशीविश्वनाथस्यानुपमोऽनुग्रहः । ते मम गुरूणां परमश्रद्धेया-
सम्प्रत्यपि
स्नेह-विश्वासभाजनान्यासन् ।
नामाचार्य श्रीपट्टाभिरामंशास्त्रिणामपि
 
निदेशकत्वेन
 
गुरुस्मारकसंस्थाया आचार्यश्रीपट्टाभिरामशास्त्रिवेदमीमांसानुसन्धानकेन्द्रस्य
संस्थायाः सञ्चालनं कुर्वन्तो गुरुचरणेभ्यः स्वकीयां क्रियात्मिकां श्रद्धां समर्पयन्तो वर्तन्त
इति महनीयमुदाहरणं तेषां विनयस्य सौजन्यस्य च । अवसरेऽस्मिन्नहं तेषां
सेवाकलापं स्मारं स्मारं तेभ्यः कृतज्ञतामभिव्यञ्जयामि । शाङ्करवेदान्तकोशस्य च
लोकार्पणं तत्रभवद्भिराचार्यवर्यैः जगद्गुरुशङ्कराचार्यैः काञ्चीकामकोटिपीठाधीश्वरैः
श्रीजयेन्द्रसरस्वतीस्वामिपादैः स्वीकृतम् । तेभ्योऽपि स्वकीयं विनयाञ्जलिं समर्पयामि ।
प्रसङ्गेऽस्मिन् ग्रन्थस्यास्य शीघ्रतया सुष्ठुरूपेण च प्रकाशनाय विश्वविद्यालयस्यास्य
प्रकाशनाधिकारिणे डॉ० हरिश्चन्द्रमणित्रिपाठिने, आनन्द-मुद्रणालयस्य सञ्चालकाय
श्रीदिवाकरत्रिपाठिने चं धन्यवादान् समर्पयन् ग्रन्थमिमं शाङ्करवेदान्तमनीषिभ्यः
समुपहरामीति ।
 
वाराणस्याम्
वैशाखपूर्णिमायाम्,
वि० सं० २०५५
 
मण्डनमिश्रः
कुलपतिः
 
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य