This page has not been fully proofread.

एकादशः श्लोकः
 
प्रतिपादयति । इममर्थ दृष्टवान् अरुणकेतुंः ऋषिः । श्रुत्यर्थस्तावत्-
इ॒मा नु॑कं भुव॑ना सीषधेम ॥
 
अस्यार्थः – पृश्नयो नाम मुनयः परस्परं सङ्गिरन्ते । इमां चक्र-
विद्याम् । नुकं वितर्के । भुवना भुवनानि । सीषधेम अवगच्छाम ।
चक्रविद्यामुपाश्रित्यैव भुवनान्यवतिष्ठन्त इति वितर्कयाम इत्यर्थः । यहा –
इमां चक्रविद्यां भुवना भुवनात्मतया सीषधेम नुकं, नु पृच्छायाम् । 'नु
पृच्छायां वितर्के च' इत्यमरः + ॥
 
-
 
इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥
 
अस्य वाक्यस्यार्थः स्पष्ट एव ।
 
चऋविद्यामुपाश्रित्यैव आसत इति
 
य॒ज्ञं च॑ नस्त॒न्वं च॑ प्र॒जां च॑ । आदि॒त्यैरिन्द्रः स॒ह सीष॑धातु ॥
अस्यार्थः–
यज्ञमनिष्टोमादिकं नः अस्माकं तन्वं तनूं शरीराधे
पत्नीमिति यावत् । प्रजां सन्तानम् । चकारात्सर्वास्सम्पदः । आदित्यैः
मरुद्गुणैः, सह इन्द्रः चक्रविद्योपासनात् प्राप्तपरमैश्वर्यः । इन्द्रश्चक्रविद्यामस्माकं
उपदिश्य सीषधातु सम्पा(दयतु) दितवान् । प्राप्तकाले लोट् ॥
 
शेषः ॥
 
आ॒दि॒त्यैरिन्द्रः॑तः॒ सम॑णो म॒रुद्भिः । अ॒स्माक॑ भू॒त्ववि॒ता
 
त॒नूना॑म् ॥
 
`† नुः पृच्छायाम् । भुवनात्मतया के पूष्वा अवगच्छाम इत्यर्थः । 'नुपृच्छायां
वितर्के व इत्यमरः --इति कार्बेटिनगरमुद्रितकोशे.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri