This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अत्र मेरुप्रस्तारकैलासप्रस्तारभूप्रस्ताराः त्रयः सम्भवन्ति । मेरुप्रस्तारो
नाम – नित्याषोडशतादात्म्यम् । कैलासप्रस्तारो नाम – मातृकातादात्म्यम् ।
भूप्रस्तारो नाम – वशिन्यादितादाम्यम् । एतत्सर्वं 'चतुष्षष्ट्या तन्त्रैः $
इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादयिष्यामः ॥
अत्र रुद्रयामळे विशेष उक्तः-
पृश्नयो नाम मुनयः
 
सर्वे चक्रसमाश्रयाः ।
 
सेवमानाश्चऋविद्यां देवगन्धर्वपूजिताम् ॥
अग्नीषोमात्मकं चक्रमग्नीषोममयं जगत् ।
अभावन्तर्बभौ भानुः अग्नीषोममयं स्मृतम् ॥
त्रिखण्डं मातृकाचक्रं सोमसूर्यानलात्मकम् ।
त्रिकोणं चैन्दवं सौम्यमष्टकोणं च मिश्रकम् ॥
चक्रं चन्द्रमयं चैव दशारद्वितयं तथा ।
चतुर्दशारं वस्तु चतुश्चक्रं च भानुमत् ॥
एतत्प्रसादादिन्द्राद्या वसवोष्टौ मरुद्रणाः ।
ये ये समृद्धा लोकेऽस्मिन् त्रिपुराचक्रसेवकाः ॥
पुरत्रयं च चक्रस्य सोमसूर्यानलात्मकम् ।
महालक्ष्म्याः पुरं चक्रं तत्रैवास्ते सदाशिवः ॥ इति ॥
 
इममेवार्थ श्रुतिरप्याह तैत्तिरीयके अरुणोपनिषत् 'इमा नुकं भुवना
सीषधेम'* इत्यारभ्य 'ऋषिमिरदात् पृश्निमि: * इत्यन्ता । अरुणोपनिष-
नाम – अरुणायाः भगवत्याः प्रतिपादिका उपनिषत् । 'भद्रं कर्णेभिः, '
इत्यारभ्य 'तपस्वी पुण्यो भवति' इत्यन्ता अरुणोपनिषत् अरुणामेव
 
gो.
 
* तै. आ. १-२७. + तै· आ १. प्रश्न:.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri