This page has not been fully proofread.

३२
 
सौन्दर्यलहरी सव्याख्या
 
द्विरेखासङ्गमस्थानं सन्धिरित्यभिधीयते ।
त्रिरेखासङ्गमस्थानं मर्म मर्मविदो विदुः ॥ इति ॥
 
उच्यते – अष्टदलषोडशदलमेखला त्रयभूपुरत्रयाणां शिवचक्राणां त्रिरे-
खासङ्गमस्थानत्वाभावेऽपि वाचनिकी मर्मसंज्ञा । यथोक्तं चन्द्रज्ञान विद्यायाम्-
मन्वश्रद्विदशाराष्टकोणवृत्तचतुष्टयम् ।
 
अष्टाविंशतिमर्माणि चतुर्विंशतिसन्धयः ॥ इति ॥
 
अस्यार्थः – चतुर्दशकोणे दशारयुग्मे अष्टकोणे च त्रिरेखा सङ्गम-
स्थानगणनायां चतुर्विंशतिमर्मस्थानानि वृत्तचतुष्टयेन शिवचक्रात्मकेन सार्धं
अष्टाविंशतिरिति ॥
 
एतत्सर्व चक्रलेखनाऽपरिज्ञाने ज्ञातुं दुश्शकमिति चकलेखनप्रकारो
निरूप्यते । स च द्विप्रकारः, सृष्टिक्रमेण संहारक्रमेणे चेति । संहार-
क्रमेणे लेखनं कौलमार्ग एव । तथापि नवयोनिपरिज्ञानार्थ स प्रकारो
निरूप्यते ॥
 
संहारक्रमेण तावत्—वृत्तमालिख्य, वृत्तमध्ये नव रेखाः लिखित्वा,
पश्चिमरेखाप्रान्ताभ्यां त्रिकोणेमुत्पाद्य, स्वापेक्षया षष्ठ्या रेखया योजयेत् ।
एवं प्राग्रेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया सप्तम्या रेखया योजयेत् ।
पश्चिमद्वितीयरेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया अष्टम्या योजयेत् ।
प्राग्वितीयरेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया अष्टम्या योजयेत् ।
ततः प्राकूपश्चिमतृतीयरेखाप्रान्ताभ्यां षट्कोणमालिखेत् * । षट्कोणमध्य-
स्थितह्रस्वरेखात्रितये पश्चिमरेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया
पञ्चम्या योजयेत् । एवं प्राग्रेखाप्रान्ताभ्यां त्रिकोणमुत्पाद्य स्वापेक्षया
 
णमुत्पाद्य वृत्तेन योजयेत्' इति प. पुस्तकें.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri