This page has not been fully proofread.

एकादशः श्लोकः
 
ताभिः सार्धं सह, तव भवत्याः, शरणकोणाः शरणं गृहं
बैन्दवं मन्दिरं, तच्च कोणाश्चेति इन्द्वसमासः । ततः कोणाश्चतुश्चत्वा-
रिंशदित्यर्थः ।
 
ननु बिन्दुत्रिकोणेत्यादिक्रमेण त्रिकोणबिन्दुभ्यां योगे षट्चत्वा-
रिंशत्कोणाः बिन्दुपरित्यागे पञ्चचत्वारिंशत्कोणा इति चेत्
 
सत्यं, प्रस्तारवशात् त्रिकोणस्याधस्स्थितं कोणद्वयमष्टकोणे अन्तर्गतम् ।
ततश्च कोणाः त्रिचत्वारिंशदेवेति ॥
 
शरणेन सार्ध कोणा इति द्वन्द्वसमासगत्या व्याख्यानम् ।
 
-
 
त्मकानि
 
यद्वा— त्रयश्चत्वारिंशदिति पाठान्तरम् । तत्र स्पष्ट एवार्थः । परिणताः
परिणामं प्राप्ताः । अयमर्थः– त्रिकोणाष्टकोणदशकोणयुगलचतुर्दशकोणा-
शक्तिचक्राणि । अष्टदलषोडशदलमेखलात्रयभूपुरत्रयात्मकानि
चत्वारि शिवचक्राणि । त्रिकोणे वसुदलं वसुकोणे षोडशदलं दशारयुम्मे
मेखलात्रितयं भुवनाश्रके भूगृहं अन्तर्भूतमिति परिणतमित्युच्यते ।
एतच्च पूर्वमेव प्रतिपादितम् ॥
 
.
 
अत्रेत्थं पदयोजना — हे भगवति ! चतुर्भिः श्रीकण्ठैः शम्भोः
सकाशात्प्रभिन्नाभिः पञ्चभिः शिवयुवतिभिः नवभिरपि मूलप्रकृतिभिः
तव शरणकोणाः वसुदलकलाश्रत्रिवलयत्रिरेखाभिः सार्ध परिणताः सन्तः
चतुश्चत्वारिंशदिति ॥
 
अत्रेदमनुसन्धेयम् — अस्मिन् चक्रे अष्टाविंशतिमर्मस्थानानि । सन्ध-

 
यस्तु चतुर्विंशतिः ॥
 
ननु मर्माणि चतुर्विंशतिरेव, कथमष्टाविंशतिः ?
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri •