This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अत्र बहु वक्तव्यमस्ति । तत्तु सुभगोदयव्याख्यानावसरे निपुणतरमुप-
पादितमस्माभिरिति अलमतिविस्तरेण । प्रकृतमनुसरामः ॥
 
चतुश्चत्वारिंशत् एतत्संख्यामिः,वसुदलकलाश्रत्रिवलयत्रिरेखाभिः,
वसवोऽष्टौ, तेन वसुशब्देन अष्टसंख्या लक्ष्यते । वसुदलं अष्टदलं,
कलाश्र–कलाः षोडश, तेन कलाशदेन षोडशसंख्या लक्ष्यते ।
अश्रशब्देन दलं लक्ष्यते । अतः कलाश्रं षोडशदलमित्यर्थः । त्रिवलयं
त्रिरेखाः
त्रयाणां वलयानां समाहारः त्रिवलयं, त्रिमेखलमित्यर्थः ।
प्राकारवलयाकाररेखाः, भू पुरत्रयमित्यर्थः । एतच्च भूपुरत्रयं चतुर्दिक्षु
द्वारयुक्तम् । तथाचोक्तम् ॥
 
बिन्दुत्रिकोणवसुकोणदशारयुग्ममन्वश्रनागदलसं युतषोडशारम् ।
वृत्तत्रिभू पुरयुतं परितश्चतुर्द्धाः श्रीचक्रमेतदुदितं परदेवतायाः ॥
 
इति । श्रुतिरपि-
स॒तद्वा॒ऽढार॑गमं ता । सहार्य नगरं तव॑ ॥ *
 
इति । अस्यार्थः – सतद्वा, चतुहार्रमित्यर्थः । छान्दसोऽवर्णलोपश्च ।
अट्टारगमं अट्टारैः प्राकारवलयैः त्रिभिः अगमं दुर्गमम् । ता तानी -
मानि भूतानि । भगवति ! तव नगरं पुरं श्रीचक्रात्मकं संहार्य
संहारकमित्यर्थः । पृथिव्यादिमहेश्वरान्तानि तत्त्वानि तत्रैव लीयन्त इति
तात्पर्यम् ॥
 
केचिदेवं व्याचक्षते—संहार्य संहारक्रमेण लेखनीयमिति । तन्न,
कौलमत एव संहारक्रमेण चक्रस्य लेखनीयत्वादिति ।
प्रकृतमनुसरामः-
* तै. आ. १-३१.
 
_CC-0. Jangamwadi Math Collection. Digitized by eGangotri