This page has not been fully proofread.

एकादशः श्लोकः
 
प्रकृतिः मूलप्रकृतिः । पुरुषो जीवः ।
 
रागः इच्छा । विद्या
शास्त्रजनितविकल्पज्ञानम् । कलाः षष्टयुत्तरत्रिशेतसयाकाः । नियतिः
नियामिका शक्तिः । कालः संहरणशक्तिः । माया ऐन्द्रजालिका-
दिज्ञानम् *। शुद्धविद्या मोचकज्ञानम् । महेश्वरः रजोगुणाविष्टः
सृष्टिकर्ता । सदाशिवः सृष्टिस्थितिकर्ता । शक्तिः महेश्वरसदाशिवयोः
संहारिणीशक्तिश्च ।
 
रक्षणसर्जनशक्तिः । चकारात् कालात्मिका
 
प्राणादि-
अहङ्कारस्य
 
शिवतत्त्वं शुद्धबुद्धमुक्तस्वरूपम् । एतेषु सर्वेषु तत्त्वेषु कतिचन तत्त्वानि
कुत्रचिदन्तर्भवन्ति । त्वगादिसप्तधातवः भूतेष्वन्तर्भवन्ति ।
वायवः वायावन्तर्भवन्ति । अतो भूतेष्वेव तेषामन्तर्भावः ।
मनस्यन्तर्भावः । ख्यातेर्विद्यायामन्तर्भावः । गुणानां प्रकृतावन्तभवः
प्रकृतेस्तु शक्तावन्तभवः । पुरुषस्य महेश्वरेऽन्तर्भावः । कलायाः शुद्ध-
विद्यायामन्तभवः । नियतेस्तु शक्तावेवान्तर्भावः । कालस्य महेश्वरे
सदाशिवे चान्तभवः । शक्तेस्तु शुद्धविद्यायामन्तभवः । शिवतत्वस्य
सदाशिवतत्त्वेऽन्तर्भावः । इति तत्वानि पञ्चविंशतिरेव । पञ्च भूतानि
तन्मात्रपञ्चकं पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनस्तत्त्वं माया-
विशुद्धविद्यामहेश्वरसदाशिवात्मकानि चत्वारि । एतानि पञ्चविंशति-
तत्वानि सर्वसंमतानि; श्रुत्यनुगृहीतत्वात् । तथा च श्रुतिः 'पञ्चविंश
आत्मा भवति' § इति । अतश्च षट्त्रिंशत्तत्तवानीत्यादितत्त्वविकल्पः
श्रुत्त्यनुसारेण पञ्चविंशतितत्त्वपर इत्यनुसन्धेयम् । अतश्च सर्वतत्त्वातीतं
शिवशक्तिसम्पुटम् । तस्मादेव जगदुत्पत्तिः । तदुक्तं सुभगोदये –
 
परोऽपि शक्तिरहितः शक्तः कर्तु न किश्चन ।
 
शक्तः स्यात्परमेशानि शक्त्या युक्तो भवेद्यदि ॥ इति ॥
 
* ' काद्यज्ञानं ' इति च पाठः• + ' कालस्य संहारिणी' इति पाठान्तरम्.
§ तै. ब्रा. १-२-६.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri