This page has not been fully proofread.

२८
 
सौन्दर्यलहरी सव्याख्या
 
' एवं पिण्डाण्डमुत्पन्नं तद्वद्ब्रह्माण्डमुडभौ ।
पञ्च भूतानि शाक्तानि मायादीनि शिवस्य तु ॥
माया च शुद्धविद्या च महेश्वरसदाशिवौ ।
पञ्चविंशतितत्वानि तत्रैवान्तर्भवन्ति ते ॥
 
एकादशेन्द्रियाणि शब्दादितन्मात्रा: तच्छब्देन परामृश्यन्ते ।
शिवशक्त्यात्मकं विद्धि जगदेतच्चराचरम् ।
चरं पिण्डाण्डं, अचरं ब्रह्माण्ड मित्यर्थः ॥
केचित एकपञ्चाशत्तत्त्वान्याहुः । तथाहि —
 
पञ्च भूतानि तन्मात्रपञ्चकं चेन्द्रियाणि च ।
ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाणि च ॥
त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः ।
मनश्चाहङ्कृतिः ख्यातिर्गुणाः प्रकृतिपूरुषौ ॥
रागो विद्या कला चैव नियतिः काल एव च ।
माया च शुद्धविद्या च महेश्वरसदाशिवौ ॥
शक्तिश्च शिवतत्वं च तत्त्वानि क्रमशो विदुः ॥ इति ॥
एतान्येकपञ्चाशतत्वानि वायवीयसंहितादिशैवपुराणेषू सर्वेषु प्रतिपादितानि ।
अस्यार्थः–पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशात्मकानि कार्यकारण-
रूपेणावस्थितानि । गन्धादितन्मात्रपञ्चकं पृथिव्यादीनां कारणभूतम् ।
ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मकानि । कर्मेन्द्रियाणि वाक्पाणि -
पादपायूपस्थात्मकानि । धातवः त्वगसृङमांसमेदोस्थिमज्जाशुक्लानि ।
प्राणापानव्यानोदानसमानाः । मनः मननात्मिका शक्तिः । अहङ्कृतिः
अहङ्कारजनिका शक्तिः । ख्यातिः ज्ञानम् । गुणाः सत्वरजस्तमांसि ।
 
वायवः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri