This page has not been fully proofread.

एकादशः श्लोकः
 
२७
 
चतुर्भिः चतुस्सङ्ख्यासङ्ख्येयैः, श्रीकण्ठैः– शृणाति हिनस्तीति
श्रीः, विषं कण्ठे यस्यासौ श्रीकण्ठः हरः, ते कोणा अपि श्रीकण्ठाः,
तादात्म्यात् तद्व्यपदेशः, अत एव बहुवचनसिद्धिः । श्रीकण्ठात्मकै-
रित्यर्थः । शिवयुवतिभिः शक्तिमिः, पूर्ववद्रहुवचनसिद्धिः । शक्तया-
त्मकैरित्यर्थः । पञ्चभिः । अपिशब्दो भेदे, प्रभिन्नाभिः प्रकर्षेण
मिन्नाभिः । प्रकर्षस्तु शिवशक्तिचक्रमध्ये बैन्दवस्थानस्य विद्यमानत्वात्,
एतच्च समयमतेन सृष्टिक्रमेण पञ्चचक्रलेखने ज्ञेयम् । कौलमतेन
संहारक्रमेण नवयोनिचकलेखने ऊर्ध्वाधोमुखतया अवस्थितेः प्रमिन्नत्वं
ज्ञेयम् । तेनोभयं पृथक्पृथक् स्थितमित्यर्थः । शम्भोः इति पञ्चमी,
शम्भुशब्देन चत्वारः श्रीकण्ठाः उच्यन्ते नवभिः नवसङ्ख्यैः, अपि-
शब्दो वक्ष्यमाणबाहुल्यं समुच्चिनोति । मूलप्रकृतिभिः प्रपञ्चस्य
मूलकारणैः, अत एव तेषां योनिशब्देन व्यवहारः । नव योनयो
 
नवधात्वात्मकाः । तथा चोक्तं कामिकायाम् -
 
त्वगसृङ्मासमेदोस्थिधातवः शक्तिमूलकाः ।
मज्जाशुक्लप्राणजीवधातवः शिवमूलकाः ॥
नवधातुरयं देहो नवयोनिसमुद्भवः ।'
दशमी योनिरेकैव परा शक्तिस्तदीश्वरी ॥ इति ॥
 
दशमी योनिः बैन्दवस्थानम्, तदीश्वरी तस्य देहस्येत्यर्थः ॥
 
1: " जीवधातुर्नाम जीवाधिष्ठानत्वात् भोजोधातुरेव जीवधातुरित्युच्यते ।
तदुक्तं वाग्भटेन– रसादिशुक्रान्तानां धातूनां प्रसाद श्रेष्ठो जीवाधारभूतो धातुः भोज
इति " इत्ययमधिको व्याख्यानरूपः पाठ त-पुस्तके दृश्यते.
26 दशमो धातुरेकैच' इति पाठान्तरम्.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri