This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
चरणशब्दो नपुंमकः, 'पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः । नः अस्मान्
साधकान् लोके प्रपञ्चे सुघितान् तृप्तान्, यहा – सञ्जातबुद्धिप्रकाशान्
सुधियः, कृत्वा दधातु पुष्णातु ॥
 
नन्वयं मन्त्रः अपाघास्विष्टिषु याज्यात्वेनाम्नातः । मन्त्राणां
समवेतार्थ' प्रकाशनशीलत्वात्, 'चरणाय स्वाहा' इति 2 चतुर्थ्यर्थोप-
हितशब्दस्यैव देवतात्वात्, एतद्व्याख्यानं न सङ्गच्छत इति चेत् -
 
उच्यते – अत्राहुः भगवत्पादाः-
सिद्धमन्नं परित्यज्य मिक्षामटति दुर्मतिः ।
 
-
 
इति । अयमाशयः–वेदस्य सकर्तृकत्वासिद्धेः फलदानसमर्थत्वेन सर्वविद्व-
दभिमतं वृद्धव्यवहारावसितशक्तिकं 'लोकस्य द्वारम्' इत्यादिविशेषण-
विशिष्टत्वाई भगवत्याश्चरणमेव 'चरणाय स्वाहा' इत्यत्र चरणशब्दे-
नाभिघीयत इति ॥ १० ॥
 
पूर्वश्लोके इन्दुमण्डलात्मकं श्रीचक्रमित्युक्तम् । तदेव श्रीचक्र-
मुपदिशति-
चतुर्भिश्श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः
चतुश्चत्वारिंशद्वसुदलकलाश्रुत्रिवलय-
त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११ ॥
 
1 स्वस्वदेवता प्रकाशन. 2 चतुर्थ्यन्तोपहित.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri