This page has not been fully proofread.

दशमः श्लोकः
 
२५
 
श्रुतिरपि भगवत्याः चरणाम्बुजसुधाधारासारैः प्रपञ्चसेचनं प्रतिपादयति ।
तथा हि-
लोकस्य द्वार॑मर्च॒मत्पवित्र॑म् ।
ज्योति॑ष्म॒द्भ्राज॑मानं॒ मह॑स्वत् ।
 
अ॒मृत॑स्य॒ धारा॑ बहुधा दोह॑मानम् ।
चरणं नो लोके सुधितान् दधातु ॥ *
 
अस्यार्थः – लोकस्य स्वनिवासस्थानस्य सायुज्यस्य वा साटर्ध्या-
अर्चिमत् अर्चीषि मयूखाः
 
देर्वा ब्रह्मलोकादेवी द्वारं, तत्प्रापकमित्यर्थः ।
 
अस्य सन्तीति अर्चिमत्,
 
अर्चिष्मदित्यर्थः । छान्दसः सकारलोपः ।
 

 
मयूखाः किरणाः। पवित्रं स्वयमतिशुद्धम् अन्यशुद्धिहेतुश्च । 'ज्योति-
ष्मद्राजमानं महस्वत्' इत्याग्रेडनं अर्चिष्मतूस्तुत्यर्थम् । यहा –
 
}
 
1
 
* त्रिखण्डं मातृकाचक्रं सोमसूर्यानलात्मकम् ।
 
V
 
9
 
इति वक्ष्यते । 'अर्चिष्मत्' इत्यनेन आग्नेयान्यचष्यष्टोत्तरशतं कथ्य-
न्ते । 'ज्योतिष्मत्' इत्यनेन ऐन्दवानि षट्त्रिंशदुत्तरशतं ज्योतींपि
निर्देिश्यन्ते । 'महस्वत्' इत्यनेन भानवीयानि षोडशोत्तरशतं महांसि
किरणाः संगृह्यन्ते ।
एतच्च 'क्षितौ षट्पञ्चाशत् + इतिश्लोक-
व्याख्यानावसरें निपुणतरमुपापदयिष्यामः । अमृतस्य धाराः सुधा-
प्रवाहान् बहुधा बहुप्रकारेण द्विसप्ततिसहस्रनाडीमार्गेषु दोहमान किरत्
चन्द्रमण्डलगतसुधाघाराप्रवाहान् स्वनिर्णजनपवित्रितान् वर्षेदित्यर्थः । तच्चरणं,
 
तं. ब्रा. ३-१-३२.
 
+ १४ श्लो.
 
1 त्रिविधम्.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri