This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
२४
 
तत्तु समयिनां मते श्रीचक्रमेव । चन्द्रमण्डलस्य षोडशकलात्मकत्वात्,
श्रीविद्यायाः प्रतिपदादिषोडशदिनेषु कलावृद्धिक्षययोः वक्ष्यमाणत्वात्,
चन्द्रमण्डलमेतदेव । बाह्यस्थितमपि चन्द्रमण्डलं श्रीचक्रमेवेति सुभगोदय-
व्याख्याने निदर्शितम् । तत्तु महारहस्यम् । अतश्च शिरस्स्थितसहस्र-
दलकमलान्तर्गतश्रीचक्रात्मकश शिबिम्बमध्यस्थिताया भगवत्याश्चरणकमल-
निर्णेजनजलैः सुधामयैः साधकस्य सकलशरीरं संप्लाव्य पुनः भुजङ्गरूपेण
आधारकुण्डं प्रविश्य सुषुम्नामवष्टभ्य सा भगवती स्वपितीति । यथोक्तं
वामकेश्वरमहातन्त्रे-
-
 
भुजङ्गाकाररूपेण मूलाधारं समाश्रिता ।
 
शक्तिः कुण्डलिनी नाम बिसतन्तुनिमाऽऽशुभा ॥
 
आशुभा क्षणप्रभा विद्युन्निभेत्यर्थः ।
 
मूलकन्दं फणाग्रेण दष्ट्वा कमलकन्दुवत् ।
मुखेन पुच्छं संगृह्य ब्रह्मरन्धं समाश्रिता ॥
 
पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः ।
वायुमूर्ध्वगतिं कुर्वन् कुम्भकाविष्टमानसः ॥
वाय्वाधातवशादग्भिः स्वाधिष्ठानगतो ज्वलन् ।
ज्वलनाघातपवनाघातैरुन्निद्रितोऽहिराट् ॥
 
रुद्रग्रन्थि ततो भित्त्वा विष्णुप्रन्थि मिनत्यतः ।
ब्रह्मप्रन्थि च भित्तवैव कमलानि मिनत्ति षट् ॥
सहस्रकमले शक्तिः शिवेन सह मोदते ।
सा चावस्था परा ज्ञेया सैव निर्वृतिकारणम् ॥ इति ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri