2023-02-16 08:26:05 by ambuda-bot
This page has not been fully proofread.
दशमः श्लोकः
२३
,
"
सुधाया अमृतस्य धाराणामासारैः सम्पातैः । अत्रासारशब्द एव
घारासम्पातवचन इति धाराशब्दसाहचर्यात् आसारशब्द: सम्पातमात्रवचन
इति न पौनरुक्त्यम् । यद्वा – सुधाया आधारभूता आसारा धारासम्पाताः,
तैः चरणयुगलान्तर्विगलितैः चरणयुगलस्य पादारविन्दद्वितयस्य अन्तर्वि-
गलितैः मध्यप्रदेशात् स्ववद्भिः प्रपश्चं द्विसप्ततिसहस्त्र सङ्ख्याकनाडीमार्ग,
सिञ्चन्ती सेक्त्री, पुनरपि सेचनानन्तरमपि, रसाम्नायमहसः चन्द्रसका-
शात्, रसाम्नायमहश्शब्दो यामलेषु कलानिधौ प्रसिद्धः, रसस्य सुधाया
आम्नायो गुणानामाधिक्यमिति यावत् तदात्मकं महः कान्तिर्यस्य सः
रसाम्नायमहा इति व्युत्पत्तेः । अवाप्य प्राप्य, स्वां स्वकीयां, भूमिं
आध्नारचक्रं, भुजगनिभं सर्पसदृशं, अध्युष्टवलयं अधिष्ठितकुण्डलनाविशेषं,
स्वं निजं आत्मानं कृत्वा धृत्वा स्वस्वरूपमवलम्ब्य उषित्वा, स्वपिपि
निद्रासि कुलकुण्डे कुः पृथिवीतत्त्वं लीयते यत्र तत्कुलं आधारचक्रम् ।
लक्षणया सुषुम्नामार्गः कुलमित्युच्यते । अत एव कौला: कुलपूजकाः
आधारसेवका इति कौलत्वं तेषामिति रहस्यम् । एतदुत्तरत्र प्रस्फोर्यते ।
कुलमार्गस्य सुषुम्नाया मूले यत्कुण्डं कमलकन्दाकारं आधारकन्दं तस्मिन्
कुहरिणि, कमलकन्दमध्यस्थितछिद्रतुल्यं छिद्रं यस्य कुण्डस्य तत्तथोक्तम् ।
आधारकन्दमध्यस्थितसुषिरमध्ये बिसतन्तुनिभा तत्र कुण्डलिनी शक्तिः वर्तत
इति तात्पर्यम् ॥
१
-
*
-
अत्रेत्थं पदयोजना — हे भगवति ! चरणयुगलान्तर्विगलितैः
सुधाधारासारैः प्रपञ्चं सिञ्चन्ती रसाम्नायमहसः सकाशात् स्वां भूमिं
पुनरप्यवाप्य भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा कुहरिणि कुलकुण्डे
स्वपिषि ॥
अत्रेदमनुसन्धेयम्——– शिरस्थितं चन्द्रमण्डलं सर्वयोगशास्त्रसिद्धम् ।
CC-0. Jangamwadi Math Collection. Digitized by eGangotri