This page has not been fully proofread.

२२
 
सौन्दर्यलहरी सव्याख्या
 
शैवानामपि शाक्तानां चक्राणां च परस्परम् ।
अविनाभावसम्बन्धं को जानाति स चक्रवित् ॥
त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ।
मनुकोणं चतुष्कोणं कोणचत्राणि षट् क्रमात् ॥
मूलाधारं तथा स्वाधिष्ठानं च मणिपूरकम् ।
अनाहतं विशुद्धयाख्यमाज्ञाचक्रं विदुर्बुधाः ॥
तवाधारस्वरूपाणि कोणचक्राणि पार्वति ।
त्रिकोणरूपिणी शक्तिः बिन्दुरूपश्शिवः स्मृतः ॥
अविनाभावसम्बन्धः तस्माद्विन्दुत्रिकोणयोः ॥ इति ॥
 
इतः पूर्वम्-
-
 
अधोमुखं चतुष्कोणं शिवचक्रात्मकं विदुः ॥
इत्यनुसारेण 'अधोमुखानि चत्वारि त्रिकोणानि शिवात्मकानि' इत्युक्तिः
'शिवचक्राणि बाह्यानि तद्रूपेणावस्थितानि' इत्येवंपरेति ध्येयम् ॥
 
यद्वा— कौलमतानुसारेण अधोमुखानि चत्वारि त्रिकोणानि शिवात्म-
कानि ऊर्ध्वमुखानि पञ्च त्रिकोणानि शक्त्यात्मकानि । कौलमते संहार-
क्रमेण लेखने नवत्रिकोणात्मकं श्रीचक्रम् । एतत्सर्व 'चतुर्भिः श्रीकण्ठैः '*
इत्यादिश्लोकव्याख्यानावसरे वक्तव्यमपि 'सहस्रारे पद्मे सह रहसि पत्या
विहरसे' इत्यत्रावश्यं वक्तव्यत्वात् उभयोपयोगितया अत्रैव किञ्चित्कथितम् ।
विस्तरस्तु तत्रैवावघार्यः ॥ ९ ॥
 
सुधाधारासारैश्चरणयुगलान्त विंगलितैः
 
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।
आवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥१०॥
.* ११ श्लोकः.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri