2023-02-16 08:26:04 by ambuda-bot
This page has not been fully proofread.
नवमः श्लोकः
२१
इत्यादौ शक्तिचक्राणि त्रिकोणाष्टकोणदशारद्वितयचतुर्दशकोणात्मकानि पञ्च
चक्राणि । शिवचक्राणि तु अष्टदलषोडशदलमेखलात्रितयभू पुरत्रयात्म-
कानीति । अतः शक्तिचक्राणां बाह्यतः शिवचक्राणि । शिवस्य शक्तिबाह्यत्वा-
योगात् तानि शिवचक्राणि विन्दुरूपेणाकृष्य शक्तिचक्रान्तरे स्थापितानि ।
अत एव बिन्दुः शिवचक्रचतुष्टयात्मकः शक्तिचक्रेषु पञ्चसु व्यश्नुवानः
समाप्त इति शिवशक्त्योरैक्यमिति केचित् ॥
अन्ये तु – बिन्दुत्रिकोणयोरैक्यं, अष्टकोणाष्टदलाम्बुजयोः,
चतुर्दशारभू पुरयोरवैयम्,
दशार-
अनेन प्रकारेण
"
युग्मषोडशदलाम्बुजयोः
शिवशक्त्योरैक्यमित्याहुः । अत्र बिन्दुशब्देन शिवचऋचतुष्टयप्रतिनिधिभूतो
वर्तुलाकारो लक्ष्यते, न तु चतुष्कोणमध्यवर्ती बिन्दुः । स तु सहस्रकमलान्तर्गतः
आधारस्वाधिष्ठानदशदलप्रकृतिभूतः शिवशक्तिमेलनाविष्टतनुः
सादाख्यं
षड्वंश तत्त्वम् । तेन सह नादबिन्दुकलानामैक्यं नास्ति, तस्य नादबिन्दु
कलातीतत्वात् । एतच्च पुरस्तात्प्रपञ्चयिष्यते । अत एव सहस्रकमलान्तर्गत-
चन्द्रमण्डलमध्यवर्ती सुधासिन्धुरेव भगवत्या विहरणस्थानमिति 'सहस्रारे
पद्मे सह रहसि पत्या विहरसे' इति 'सुधासिन्धोर्मध्ये' इति च श्लोक-
द्वयस्यैक एवार्थ इति रहस्यम् । इममेवार्थ भैरवयामले चन्द्रज्ञानविद्यायां
शिव आह पार्वतीम्
-
चतुर्भिः शिवचक्रैश्च शक्तिश्च पञ्चभिः ।
नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्यपुः ॥
त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ।
चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ॥
बिन्दुश्चाष्टदलं पद्मं पद्म षोडशपत्रकम् ।
चतुरथं च चत्वारि शिवचक्राण्यनुक्रमात् ॥
त्रिकोणे बैन्दवं श्लिष्टं अष्टारेऽष्टदलाम्बुजम् ।
दशारयोः षोडशारं भूगृहं भुवनाश्रके ॥
"
CC-0. Jangamwadi Math Collection. Digitized by eGangotri