This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
२०
 
1
 
तच्चानि तेषु चक्रेषु तन्मात्रतयाऽवस्थितानि । तन्मात्रास्तु गन्धरूप-
रसस्पर्शशब्दात्मकाः । आज्ञाचक्रस्थितेन मनस्तत्त्वेन एकादशेन्द्रियगण:
संगृहीतः । एवमेकविंशतितत्त्वानि प्रतिपादितानि । पत्या सह रहसि
सहस्रपत्रे विहरसे इत्यनेन तत्त्वचतुष्टयं सूचितम् । तच्च मायाशुद्ध-
विद्यामहेश्वरसदाशिवात्मकं तत्त्वचतुष्टयम् । एवं मिलित्वा पञ्चविंशतितत्त्वानि
• मायापर्यन्तानि मायया युक्तत्वात् प्राकृतानि । माया महेश्वरेण
संयुक्ता सती तस्य जीवभावमापादयति । स जीवः प्राकृत एव ।
शुद्धविद्या तु सदाशिवेन युक्ता सती सादाख्या कलेति व्यवह्वियते ।
अतो भगवती चतुर्विंशतितत्त्वा न्यतिक्रान्ता सदाशिवेन पञ्चविंशेन सार्धं
विहरमाणा पड्विंश तस्त्वात्मतामा पन्ना परमात्मेति गीयते । एतदुक्तं
भवति – सादाख्या कला पञ्चविंशेन सदाशिवेन मिलिता षड्विंशा भवति,
मेलनस्य तत्त्वान्तरत्वात् । न चोभयोर्मेलनमुभयात्मकम् । तस्य तादात्म्य-
रूपत्वात् तत्त्वान्तरमेवेति रहस्यम् । यत्तु श्रुतिवाक्यं 'पञ्चविंश
आत्मा मवति * इति तत्तु सदाशिवतत्त्वप्रतिपादनपरम्, न मेलनपरमिति
ध्येयम् ॥
 
तु
 
ननु बैन्दवस्थानं श्रीचक्रस्य मध्यस्थितं, शिवचक्राणां चतुर्णा-
मुपरि शक्तिचक्राणां पञ्चानामधस्तादवस्थितत्वात् सहस्रारपद्मस्य
शिरस्थितत्वात् सर्वेवामुपरि वर्तमानत्वात् तस्य बैन्दस्थानत्वं नोपपद्यत
इति चेत् -
 
निशम्यतां भागवतमतरहस्यम्-
चतुर्भिः शिवचक्रैश्च शक्तिचकैश्च पञ्चभिः ।
शिवशक्तिमयं ज्ञेयं श्रीचकं शिवयोर्वपुः ॥
 
* तै. बा. १-२-६.
 
2
 
."
 
प्रतिपादितानि, सानीत्यधिकम्
 
न्यतिक्रान्ता शिवेन.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri