This page has not been fully proofread.

नवमः श्लोकः
 
यद्यपि आधारचक्रस्योपरि स्वाधिष्ठानं वर्णनीयं, तथापि आकाशादितत्वो-
त्पत्तिक्रममवलम्ब्य व्युत्क्रमेण मणिपूरचरक्रवर्णनं कृतमित्यनुसन्धेयम् । एतच्च
'तवाज्ञाचक्रस्थम्'* इत्यादिश्लोकषट्कव्याख्यानावसरे सम्यगुपवर्णितम् ।
हृदि हृदयाकाशे अनाहतनामनि चक्रे, अनाहतनादस्थानत्वान् अनाहत-
नामास्य । मरुतं मरुत्तत्त्वम्, आकाशं आकाशतत्वम्, उपरि पूर्वोक्ता-
नामुपरि विशुद्धिचके, शुद्धस्फटिकसङ्काशत्वात् विशुद्धिनामास्य । मनः
मनस्तत्त्वम्, अपिशब्दः उक्तसमुच्चयार्थः, भ्रमध्ये अवोरन्तराले आज्ञाचक्रे,
अत्र आड़ू ईषदर्थः, ज्ञा ज्ञानम्, ईषत् ज्ञानं यत्र जायते साधकानां
भगवतीविषयम् । ब्रह्मग्रन्थिभेदनातिव्यप्रतया भगवत्या आज्ञाचक्रे क्षण-
मात्रावस्थानात् साधकानां तटिल्लेखारूपेण अवभासनात् आज्ञाचक्रनामास्य ।
स्थितमिति लङ्गव्यत्ययेन सर्वत्रानुषज्यते । सकलं सर्वम्, अपिः
समुच्चये, भित्तवा (हित्वा) कुलपथं सुषुम्नामार्गम्, सहस्रारे सहस्रदले,
पद्मे कमले, सह मिलित्वा, रहसि एकान्ते, पत्या सदाशिवेन,
विहरसे क्रीडसे ॥
 

 
अत्रेत्थं पदयोजना — हे भगवति ! मूलाधारे महीं, कं मणि-
पूरे हुतवहमपि, स्वाधिष्ठाने हुतवहमेव, हृदि मरुतं, आकाशमुपरि,
मनोऽपि मध्ये आकाशमपि, स्थितमिति लिङ्गव्यत्ययेन सर्वत्रा -
नुषज्यते । संकलं कुलपथमपि मित्त्वा सहस्वारे पद्म रहसि पत्या
सह विहरसे ॥
 
अत्रेदमनुसन्धेयम्-मूलाधारस्वाधिष्ठानमणिपूरानाहत विशुद्धयाज्ञात्मकानि
षट् चक्राणि । एतानि पृथिव्यमिजलपवनाकाशमनस्तत्त्वात्मकानि । तानि
 
३६ श्लोक :
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri