2025-12-27 20:46:25 by ramesh1805
This page has not been fully proofread.
<page>

सौन्दर्यलहरी सब्याख्या

अनेन''क्वणत्काञ्चीदामा'' इति ''सुधासिन्धोर्मध्ये'' इति च श्लोकद्वयमेकीकृत्य
व्याख्यातमित्यवगन्तव्यम् ॥

<verse lang="sa">महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि भ्रमध्ये सकलमपि भिवा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९ ॥</verse>

महीं पृथिवीतत्त्वं, मूलाधारे मूले गुदस्थाने सर्वाधारभूतं चक्रं
मूलाधारभूतमिति, तस्मिन् मूलाधारे ।

सर्वांधारा मही यस्मात् मूलाधारतया स्थिता ।
तदभावे तु देहस्य पातः स्यादुद्गमोऽपि वा ।

इति रुद्ररहस्ये । पृथिवीतत्त्वात्मकस्य मूलाधारस्याभावे देह ऊर्ध्व
बा गच्छेत्, अघो वा पतेदित्यर्थः । कं उदकतत्त्वम् । अपिशब्दः
स्वाधिष्ठानोक्तवह्निं समुच्चिनोति । मणिपूरे मणिपूरचक्रे, यत्र स्थिता
भगवती मणिभिः तत्प्रदेशं पूरयति, स देशो मणिपूरः । समयिनां आन्तर-
पूजावसरे तृतीयकमले नानाविधमणिगणखचितभूषणार्पणं देव्याः कर्तव्यमिति
रहस्यम् । हुतवहं अग्नितत्त्वम्, स्थितं प्रतिष्ठितं, स्वाधिष्ठाने स्वाधिष्ठाननामके
चक्रे, कुण्डलिन्याः भगवत्याः `स्वयमधिष्ठायप्ग्रन्थिथिं कृत्वा अवस्थानं
स्वाधिष्ठानम् । यथोक्तं योगदीपिकायाम्-
रुद्रग्रन्थिरयं शक्तेः स्वाधिष्ठानाग्रसीमनि ॥ इति ॥

1 स्वेच्छयाधिष्ठाय

_CC-0. Jangamwadi Math Collection. Digitized by eGangotri

</page>

सौन्दर्यलहरी सब्याख्या

अनेन
व्याख्यातमित्यवगन्तव्यम् ॥

<verse lang="sa">महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि भ्रमध्ये सकलमपि भिवा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९ ॥</verse>

महीं पृथिवीतत्त्वं, मूलाधारे मूले गुदस्थाने सर्वाधारभूतं चक्रं
मूलाधारभूतमिति, तस्मिन् मूलाधारे ।

सर्वांधारा मही यस्मात् मूलाधारतया स्थिता ।
तदभावे तु देहस्य पातः स्यादुद्गमोऽपि वा ।

इति रुद्ररहस्ये । पृथिवीतत्त्वात्मकस्य मूलाधारस्याभावे देह ऊर्ध्व
बा गच्छेत्, अघो वा पतेदित्यर्थः । कं उदकतत्त्वम् । अपिशब्दः
स्वाधिष्ठानोक्तवह्निं समुच्चिनोति । मणिपूरे मणिपूरचक्रे, यत्र स्थिता
भगवती मणिभिः तत्प्रदेशं पूरयति, स देशो मणिपूरः । समयिनां आन्तर-
पूजावसरे तृतीयकमले नानाविधमणिगणखचितभूषणार्पणं देव्याः कर्तव्यमिति
रहस्यम् । हुतवहं अग्नितत्त्वम्, स्थितं प्रतिष्ठितं, स्वाधिष्ठाने स्वाधिष्ठाननामके
चक्रे, कुण्डलिन्याः भगवत्याः `स्वयमधिष्ठाय