This page has not been fully proofread.

अष्टमः श्लोकः
 
इति भैरवयामळे वामकेश्वरमहातन्त्रे बहुरूपाष्टक विद्यायां कथितम् । 'देव्या
मन्दिरमुत्तमम्' इत्यस्यार्थः– देवीमन्दिरं त्रयश्चत्वारिंशत्रिकोणात्मकं
श्रीचक्रमुच्यते । अत उक्तं 'शिवाकारे मञ्चे' इति । त्रिकोणात्मक-
श्रीचक्रस्य बैन्दवस्थानं प्रत्यङ्गत्वात्, बैन्दवस्थानस्य प्रधानत्वात्,
प्रधाने गुणस्यान्तर्भावात् तदन्तर्भाव उक्त इति रहस्यम् । 'भृतका: '
इत्यस्यार्थः—भृतकाः भृत्याः द्रहिणहरिरुद्रेश्वराः । एतच्च 'गतास्ते मञ्चत्वं
द्रुहिण' * इत्यादिश्लोकव्याख्यानावसरे वक्ष्यते । 'शिवार्कमण्डलं भित्वा '
इत्यस्यार्थः–
शिवा नाम शक्तिः कुण्डलिनी अर्कमण्डलं हृत्कमलोपरि
स्थितं मित्तवा मिन्नं कृत्वा अवयुत्य आच्छाद्येत्यर्थः । अर्कमण्डलोपरि
स्थितं ब्रह्मद्वारं पिधाय सहस्रकमलान्तस्स्थितमिन्दुमण्डलं दशति द्राव-
यति । अत एव कुलयोषित् कुण्डलिनीशक्तिः, कुलं कुलमार्ग सुषु-
नामार्ग, त्यक्त्वा तत्रैवेन्दुमण्डले आस्थाय, परं वर्षणं उत्कृष्टवर्षणं,
द्विसप्ततिसहस्रनाडीषु प्रवर्षणं, कृत्वेति शेषः । सा कुण्डलिनी पुनः
स्वस्थानमेत्य स्वाधिष्ठानं प्राप्य स्वपितीति तात्पर्यम् । शिवादीनां
मञ्चत्वोपधानत्वपतग्रहत्वावस्थापन्नत्वं कामपरूपत्वाद्देवानां अत्यन्तासन्नसेवार्थं
घटते । इममेवार्थ संक्षेपेणोक्तवान् सदाशिवः -
 
सुधाब्धौ नन्दनोद्याने रत्नमण्टपमध्यगाम् ।
बालार्कमण्डलामासां चतुर्बाहां त्रिलोचनाम् ॥
 
2
 
3
 
पाशाङ्कुशशरांश्चापं धारयन्तीं शिव ' श्रियम् ।
ध्यात्वा च हृद्रतं चक्रं व्रतस्थः परमेश्वरीम् ॥
पूर्वोक्तध्यानयोगेन चिन्तयन् 'जपमाचरेत् ॥ इति ॥
 
1
 
9
 
* ९२ श्लोकः । मञ्चत्वोपपादनं पतद्ग्रहत्वाद्देवानाम् श्रये.
4 सञ्चिन्त्य ध्यानमाचरेत्.
 
2
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
8
 
यन्त्रम्.