2023-02-16 08:26:03 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सव्याख्या
अत्रेदमनुसन्धेयम्—भगवत्पादाचार्याः समयमतपारदृश्वान: समयाचार-
प्रवणाः समयरूपां भगवतीं स्तुवन्ति । समयाचारो नाम आन्तरपूजारतिः ।
कुलाचारो नाम बाह्यपूजारतिरिति रहस्यम् । एतच्च 'तवाधारे मूले
सह समयया' * इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपादयिष्यामः ।
श्रीचक्रस्य वियच्चक्रमिति नामान्तरमस्ति वियच्चक्रत्वं तु वियत्पूज्यत्वात् ।
वियत्पूज्यत्वं द्विविधं, दहराकाशजं बाह्याकाशजं चेति । बाह्याकाशजं
नाम बाह्याकाशावकाशे पीठादौ भूर्जपत्रशुद्धपटहेमरजतादिपट्टतले लिखित्वा
समाराधनम् । एतदेव कौलपूजेत्याहुर्वृद्धाः । तदुत्तरत्र स्फोर्यते ।
दहराकाशजं नाम हृदयाकाशावकाशे चक्रस्य पूजनम् । इदमेव समय-
पूजेत्याहुः समयिनः । एतदप्युत्तरत्र स्फोर्यते । तत्र नवयोनिष्वधः-
स्थिताशवात्मकयोनिचतुष्कस्योपरि ऊर्ध्वस्थितशक्त्यात्मकयोनिपञ्चकाधःप्रदे-
शस्य बैन्दवस्थानस्य नाम सुधासिन्धुरिति ॥
*
" बिन्दुस्थानं सुधासिन्धुः पञ्चयोन्यः सुरद्रुमाः ।
तत्रैव नीपश्रेणी च तन्मध्ये मणिमण्टपम् ॥
तत्र चिन्तामणिकृतं देव्या मन्दिरमुत्तमम् ।
शिवात्मके महामञ्चे महेशानोपवर्हणे ॥
अतिरम्यतरे तत्र कशिपुश्च सदाशिवः ।
भृतकाञ्च चतुष्पांदा महेन्द्रश्च पतग्रहः ॥
तत्रास्ते परमेशानी महात्रिपुरसुन्दरी ।
शिवार्कमण्डलं मित्त्वा द्रावयन्तीन्दुमण्डलम् ॥
तदुद्भुतामृतस्यन्दिपरमानन्दनन्दिता ।
कुलयोपिकुलं त्यक्त्वा परं वर्षणमेत्य सा ॥"
४१ श्लोकः.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri