This page has not been fully proofread.

अष्टमः श्लोकः
 
अत्र यद्वक्तव्यं तत्तु 'तवाज्ञाचक्रस्थम्' + इत्यादिश्लोकषट्कव्या-
ख्यानान्ते निपुणतरमुपपादयिष्यते, तत्तत एवावधार्यम् ॥ ७ ॥
 
सुधासिन्धोर्मध्ये सुरविटपिवाटी परिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कलियां
 
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥
 
1
 
सुधासिन्धोः अमृतसमुद्रस्य मध्ये सुरविटपिवाटीपरिवृते
सुरविटपिनां कल्पवृक्षाणां वाटीभिः झम्पाभिः परिवृते, मणिद्वीपे मणिमये
अन्तरीपे, नीपोपवनवति नीपैः कदम्बै: उपवनवति चिन्तामणिगृहे
चिन्तामणिविरचिते मन्दिरे शिवाकारे शिवात्मके शक्तिरूपे, त्रिकोणे
इति यावत्, मञ्चे खट्टायां, परमशिवपर्यङ्कनिलयां परमशिव एव
पर्यङ्क: तल्पं, तत्र निलयः अवस्थितिर्यस्याः तां, भजन्ति सेवन्ते,
त्वां भवतीं, धन्याः त्वत्प्रसादवशात् कृतार्थाः, कर्तिचन विरलाः,
चिदानन्दलहरीं चित् ज्ञानं, तदाकारः आनन्दः निरतिशयसुखं,
तस्य लहरीं उत्सेकरूपाम् ॥
 
-
 
अत्रेत्थं पदयोजना — हे भगवति ! सुधासिन्धोः मध्ये सुर-
विटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे शिवा-
कारे मञ्चे परमशिवपर्यङ्कनिलयां त्वां चिदानन्दलहरीं कतिचन धन्याः
भजन्ति ॥
 
+ ३६ श्लोकः.
 
1 नीपानां कदम्बानाम्
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri