2023-02-16 08:26:03 by ambuda-bot
This page has not been fully proofread.
X
सौन्दर्यलहरी सव्याख्या
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥
क्वणत्काञ्चीदामा शिञ्जन्मणिमेखला । करिकलभकुम्भस्तननता
करिकलभकुम्भतुल्याभ्यां स्तनाभ्यामीषन्नम्रमध्येत्यर्थः । परिक्षीणा कृशा,
मध्ये अवलग्ने, तनुमध्येत्यर्थः । परिणतशरच्चन्द्रवदना परिणतः सम्पूर्ण-
कलः शरदि शरस्काले चन्द्रः इन्दुः तद्वद्वदनं यस्याः सा । धनुः चापं,
बाणान् पुष्पमयान्, पाशं दाम, सृणि अङ्कुशम् । अपिशब्दः उक्तमेव
समुच्चिनोति । दघाना बिभ्रती, करतलैः चतुर्भिः हस्ताम्बुजैः । पुरस्तात्
हृदयकमले, मणिपूरान्निर्गत्येति शेषः । आस्तां उपविशतु । नः अस्माकम् ।
पुरमथितुः त्रिपुरान्तकस्य । यद्वा — पुराणि त्रीणि वर्णानि त्रिपुराबीजानि
मध्नाति, मथित्वा नवनीतं करोति यस्मिन् रुद्रयामले स रुद्रः
पुरमथितेत्युच्यते । आहोपुरुषिका – अहोशब्द आश्चर्यवाची; पुरुष-
शब्दस्य प्रत्यगात्मवाचिनः अहंशब्दवाच्यत्वं लक्ष्यते; अत: अहो
अहम्भाव: आहोपुरुषिका, अहङ्कार इति यावत् । रुद्रस्याहङ्काररूपित्वं
भगवत्याः 'शिवः शक्त्या '* इत्यादिश्लोकव्याख्याने प्रपञ्चितम्, प्रपञ्च -
यिष्यते च ॥
-
अत्रेत्थं पदयोजना–क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता मध्ये
परिक्षीणा परिणतशरच्चन्द्रवदना धनु: बाणान् पाशं सृणिमपि करतलैः
दधाना पुरमथितुराहोपुरुषिका नः पुरस्तादास्ताम् ॥
* १ श्लोकः
CC-0. Jangamwadi Math Collection. Digitized by eGangotri