This page has not been fully proofread.

षष्ठः श्लोकः
 
साचिव्यकारित्वं न सङ्गच्छत इति तात्पर्यम् । मलयमरुत् दक्षिणानिलः
आयोधनरथः आयोधनस्य युद्धस्य साधनं स्यन्दनः । मलयमरुतो मलये
स्थितत्वात् न सार्वत्रिकत्वम्, सार्वत्रिकत्वेऽपि न सर्वदा सद्भावः, सर्वदा
सद्भावेऽपि नीरूपत्वाद्रथकार्यकारित्वाभाव इति तात्पर्यम् । तथापि उक्तप्रकारे
सार्वजनीने सिद्धेऽपि एकः असहायशूरः सर्व सकलं प्रपञ्चम् ।
हिमगिरिसुते हिमप्रधानो गिरिः हिमगिरिः, शाकपार्थिवादित्वात्साधुः,
तस्य सुता नन्दिनी, तस्याः सम्बुद्धिः । कां अनिर्वाच्याम् । अपि
शब्द: सम्भावनायाम् कृपां अनुकम्पाम् । अपाङ्गात् कटाक्षात् ते तव,
लब्ध्वा प्राप्य । जगत् जङ्गमात्मकं लोकं, स्थावरात्मकस्याप्रसक्तेः । इदं
परिदृश्यमानम् । अनङ्गः अङ्गरहितः । अत्र साधकस्यापि दौर्बल्यं
सूचितम् । हस्ताभावादेव चापाकर्षणशरसन्धाने अप्यसम्भाविते । पादाभावाच्च
1 रथादौ स्थितिरप्यसंभाविता । वक्तूनयनाद्यभावात् वयस्येन मधुना
सार्धं सम्भाषणसन्निरीक्षणसहासनादयः असम्भाव्या इति तात्पर्यम् । विजयते,
'विपराभ्यां जेः' इत्यात्मनेपदम् ॥
 

 
-
 
अत्रेत्थं पदयोजना — हे हिमगिरिसुते ! यस्यानङ्गस्य धनुः पौष्पं,
मौर्वी मधुकरमयी, विशिखाः पञ्च, सामन्तो वसन्तः, आयोधनरथः
मलयमरुत्, तथाऽपि सोऽनङ्गः एकः ते अपाङ्गात् कामपि कृपां लब्ध्वा
सर्वमिदं जगत् विजयते ॥
 
अत्र विभावनालङ्कारः, विजयसाधनाभावेऽपि विजयोत्पत्तेः । 'कारणेन
विना कार्योत्पत्तिर्विभावना' इति लक्षणम् ॥ ६ ॥
 
'सुधासिन्धोर्मध्ये' इत्युत्तरश्लोकोपयोगितया समयिनां चतुर्वि-
धैक्यानुसन्धानमहिम्ना मणिपूरे भगवत्या यादृशं स्फुरति रूपं तादृशं प्रस्तौति—
 
1 रथावस्थितिरपि.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri