This page has not been fully proofread.

·
 
सौन्दर्यलहरी सव्याख्या
 
यद्यपि पूर्वस्मिन् श्लोके भगवतीप्रसादासादितं मन्मथस्य प्रागल्भ्यमुक्तं,
तथापि मन्मथस्य अनङ्गविद्यायां मन्मथप्रस्तारस्य ऋषित्वात् तदायत्तमति-
प्रागल्भ्यमाह —
 
१२
 
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तो मलयमंरुदायोधनरथः ।
तथाप्येकः सर्व हिमगिरिसुते कामपि कृपां
 
अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥
 
**
 
इत्यादौ य
 
अत्र पद्ये यत्तदोरध्याहारः । उमयाध्याहारः सकलकविसमयसिद्धः ।
यथा रघुवंशे–'वागर्थाविव सम्पृक्तौ' इत्यत्र यौ सम्पृक्तौ तौ वन्दे
इति । तथा 'ये नाम केचिदिह नः प्रथयन्त्यवज्ञाम्
अत्पत्स्यते तं प्रत्येष यत्न इति । धनुः आयोधनसाधनं चापः पौष्पं
पुष्पमयम् । पुप्पाणामतिमृदुलत्वात् स्पशासहत्वात् नमनाकर्षणादिचाप-
कार्यानर्हत्वमिति तात्पर्यम् । मौर्वी शिञ्जिनी, मधुकरमयी पधुकरैः
भ्रमरैः प्रचुरा, भ्रमरपङिनिर्मितेत्यर्थः । परस्परासम्बद्धानां शिञ्जिनीत्वं न
 
क्त
 
सङ्गच्छति तात्पर्यम् । पञ्च पञ्चसङ्ख्यासङ्ख्ययाः, विशिका:
बाणाः । पञ्चानां विक्षेपणे तूष्णीम्भाव एव शरणमिति तात्पर्यम् ।
किञ्च –' पञ्च विशिखाः' इत्यनेन तद्विशिखानां प्रसूनात्मकत्वप्रसिद्धेः
विशिवकार्यकारित्वाभाव इति तात्पर्यम् । वसन्तः कालविशेष:, 'वसन्तो
मधुमाधवौ इत्यभिधानात् । सामन्तः सचिवः । तस्य कालात्मकत्वात्
 
* मालतीमाधवे.
 
.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri