This page has not been fully proofread.

पञ्चमः श्लोकः
 
-
 
रतिनयनलेह्येन रते: स्वपत्न्याः नयनाभ्यां लेह्येन लेहनार्हेण, रतिनयनैक-
दृश्येनेत्यर्थः । यद्वा — रतिर्नाम अतिसुन्दरी, तस्याः नयनपेयेन इत्यति-
सौन्दर्य कामदेहस्येति । वपुषा देहेन । मुनीनां जितेन्द्रियाणाम् ।
अपिशब्द: संभावनायाम् । अन्तः अन्तरङ्गे चित्तवृत्तौ । प्रभवति
समर्थः । हिः प्रसिद्धौ । मोहाय शब्दादिविषयवाञ्छोत्पादनाय । महतां
महात्मनाम् ।
 
अत्रेत्थं पदयोजना — हे भगवति ! प्रणतजनसौभाग्यजननीं त्वां
हरिराराध्य पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां
नत्वा रतिनयनलेह्येन वपुषा महतां मुनीनामप्यन्तर्मोहाय प्रभवति हि ॥
 
११
 
पुरा किल नारायण: स्त्रीरूपधारी कनकस्वामिनं प्रलोभ्य
अवघीत् । तादृशं स्त्रीरूपं शम्भुना प्रार्थितः सन् तस्मै दर्शयित्वा तं
व्यामोहयामासेति कथा अनुसन्धेया । मन्मथोऽपि सकलमुनिमनस्सं-
क्षोभं कुर्वाण: प्रवर्तते । एतच्च बामकेश्वरमहातन्त्रे चतुःशत्यां
निरूपितम् -
 
(<
 
'एतामेव ' पुराऽऽराध्य विद्यां त्रैलोक्यमोहिनीम् ।
त्रैलोक्यं मोहयामास कामारिं भगवान् हरिः ॥
कामदेवोऽपि देवेशीं देवीं त्रिपुरसुन्दरीम् ।.
समाराध्याभवल्लोके सर्वसौभाग्यसुन्दरः ॥ इति" ॥
 
अतश्च यत्र यत्र रतिमूलकं मनस्संक्षोभकरणं भवति तत्तद्भगवतीप्रसादलभ्यमिति
वक्तुं कवेरयमारम्भः ॥ ५ ॥
 
1 पुरा ध्यात्वा. • महात्रिपुरसुन्दरीम्.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri