This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 

 
विद्या ऋग्वेदे आम्नाता 'चत्वार ई बिभ्रति क्षेमयन्तः' * इत्यादौ
न चात्र ईकारत्रयं, हृल्लेखात्रयस्यैव श्रुतत्त्वात्, इति वाच्यम् । षोडश-
कलात्मकस्य श्रीबीजस्य गुरुसम्प्रदायवशाद्विज्ञेयस्य स्थितत्वात् चतुर्णामींकाराणां
सिद्धेः मूलविद्यायाः वेदस्थितत्वं सिद्धम् ।
 
अत्र केचित्तु कुलसमयाचाराभिज्ञाः 'चत्वार ई बिभ्रति क्षेमयन्तः ?*
इत्यादिश्रुतिबोषिताश्चत्वार ईकारा: ईकारेण सार्ध हृल्लेखात्रयमित्याहुः ।
तन्न, ईकारस्य ईकारत्वोक्तरयुक्तत्वात्, मूलविद्यायाः षोडशवर्णात्मकत्वात्,
षोडशवर्णात्मकत्वं च षोडशनित्याप्रकृतिभूतत्वात् मूलविद्यायाः । एतच्च
'चतुष्षष्ट्या 'तन्त्रैः' + इति ' शिवः शक्तिः कामः
** इति च
श्लोकद्वयव्याख्यानावसरे निपुणतरमुपपादयिष्यामः । किञ्चास्य मन्त्रस्य
वेदमूलत्वं संज्ञानानुवाकेन§ 'इयं बाब सरघा' + इत्यनुवाकेन च प्रतिपाद्यत
इति वक्ष्यते ॥
 
प्रकृतमनुसरामः – प्रणतजनसौभाग्यजननीं, प्रकर्षेण नता: प्रणताः
कायिकवाचिकमानसिकनमस्कारवन्तः जनाः भक्तलोकाः, तेषां सौभाग्यस्य
जननी प्रसवित्री तां; पुरा पूर्व नारी कान्ता भूत्वा नारीरूपं धृत्वा,
पुररिपुं त्रिपुरान्तकम् । अपिशब्दो जितेन्द्रियत्वं संभावयति । क्षोभं
मनोविकारं, अनयत् नयति स्म । 'गतिबुद्धि' इत्यादिसूत्रेण द्विकर्मकत्वम् ।
स्मरोऽपि मन्मथोऽपि । अपिशब्दः पूर्वोक्तविष्णुधर्म समुच्चिनोति । यथा
विष्णुर्भवन्मन्त्रस्य ऋषिः, एवं स्मरोऽपि । त्वां भवतीं, नत्वा शरणमुपगम्य,
श्रीचक्रं सम्यगभ्यर्च्य, त्वन्मूलविद्यां सम्यगभ्यस्य, त्वत्प्रभावापन्नसत्त्व:
 
ऋः ५-४७-४.
 
+ ३१ श्लो.
 
६ तै. ब्रा. ३-१०-१ + तै. बा. ३-१०-१००
३२ श्लो.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri