This page has not been fully proofread.

पञ्चमः श्लोकः
 
इत्यर्थे, इति संचिन्त्येत्यर्थः । चरणौ पादौ । एवकारः अवधारणे ।
निपुणौ समर्थौ ॥
 
अत्रेत्थं पदयोजना - हे भगवति ! लोकानां शरण्ये ! त्वदन्यो दैवतगणः
पाणिभ्यामभयवरदः । एका त्वं पाणिभ्यां प्रकटितवरामीत्यभिनया नैवासि
हि । इति संचिन्त्य तव चरणावेव भयात्त्रातुं वाञ्छासमधिकं फलमपि
च दातुं निपुणौ ॥
 
अयं भावः - हस्ताभ्यामभयवरदानं सर्वसाधारणमिति कृत्वा त्वच्चरणावेव
तादृशाभयवरप्रदाने स्वयमेव व्यापृतौ । अतस्तव न कर्तव्यं हस्ताभ्या-
मभयवरप्रदानं, प्रयोजनाभावात्, सर्वसाधारण्यप्रसङ्गात्, लोकैकशरण्यत्व-
व्याघाताच्चत्युपदेश इति ॥
 
अत्र व्यतिरेकालङ्कारः स्पष्ट: । वाक्यलिङ्गकः काव्यलिङ्गालङ्का-
रोऽपि स्पष्टः । तयोरङ्गाङ्गिभावेन सङ्करः ॥ ४ ॥
 
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
 
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।
स्मरोऽपि त्वां नत्वा रतिनयनलेोन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५ ॥
 
हरिः विष्णुः, त्वां भवतीं चक्ररूपिणीं विद्यारूपिणीं च आराध्य
पूजयित्वा जपित्वा ध्यात्वा च । अत एव त्रिपुरसुन्दरीप्रस्तारभेदेषु
एकस्य प्रस्तारस्य ऋषिः विष्णुः । ऋषिर्नाम वेदस्थितो मन्त्रो येन
दृष्टः स इति । अत एवाहुः 'दर्शनादृषिः' इति । इयं पञ्चदशाक्षरी
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri