2023-02-16 08:26:01 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सव्याख्या
-
यद्वा — उल्लेखालङ्कारः, नगर्यादिरूपेण पांसोरुल्लेखनात् । रूपकं वा भवतु,
प्रकृतोपयोगो न विवक्ष्यत इति ॥ ३ ॥
C
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटितवरामीत्यमिनया ।
भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥
त्वत् भवत्याः सकाशात्, अन्यः इतरः, पाणिभ्यां हस्ताभ्यां
अभयवरदः अभयं भयराहित्यं, भयात्त्राणमिति यावत्, वरः इष्टार्थः,
तौ ददातीति अभयवरदः, एकेन हस्तेन अभयदः अन्येन वरद
इत्यर्थः । दैवतगणः देवता एव दैवतानि, विनयादित्वात् स्वार्थे अण्,
'स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते', यथा चेतनैव
चैतन्यमिति । तेषां गणः इन्द्रादयः आदित्यादयश्च गणदेवताः । त्वं
भवती, एका मुख्या, एकसंख्यासंख्येया वा, नैवासि न भवस्येव ।
प्रकटितवरामीत्यभिनया— प्रकटितः प्रकाशितः, हस्ताभ्यामिति शेषः,
वरः इष्टार्थः अमीतिः अभयं भयात् त्राणं, तयोरभिनयः अभिव्यञ्जनं
यस्याः सा तथोक्ता । हस्ताभ्यां अभयवरप्रदानं सर्वदैवतसाधारणमिति
अस्याः असाधारणं अभयवरप्रदानप्रकारमाह - भयात् त्रातुं संसाराद्राक्षतुं,
दातुं फलं वान्छितार्थानुरूपं, अपि च समुच्चये, वाञ्छासमधिकं
वाञ्छायाः कामनायाः सम्यगधिकं, कामितार्थादधिकमित्यर्थः । शरण्ये
शरणार्हे लोकानां चतुर्दशभुवनानाम् । तव भवत्याः । हिशब्द
CC-0. Jangamwadi Math Collection. Digitized by eGangotri