2023-02-16 08:26:01 by ambuda-bot
This page has not been fully proofread.
तृतीयः श्लोकः
चैतन्यस्तव
कमकरन्दस्रुतिझरी — चेतनैव चैतन्यम्, स्वार्थे प्यञ्, चेतना
नाम आत्मगतपदार्थप्रबोधकारिणी
चित्तविस्ताररूपा काचन शक्तिः,
तदेव स्तबकः कल्पवृक्षपुष्पगुच्छः, तस्य मकरन्दः पुष्परसः, तस्य स्रुतिः
स्रवणं निष्यन्दः, तस्य झरी प्रवाह: । दरिद्राणां दीनानां, चिन्तामणि-
गुणनिका चिन्तामणेः रत्नविशेषस्य गुणनिका गुणना आम्रेडनं, समूह
इति यावत् ।' जन्मजलधौ जन्मैव संसार एव जलधि: समुद्रः, संसारे
समुद्रत्वारोपणं अपारत्वसाम्यात् । तंत्र निमनानां नितरां उन्मज्जन-
राहित्येन ममानाम् । दंष्ट्रा- स्पष्टम् । मुररिपुवराहस्य, मुरो नाम
दैत्यः, तस्य रिपुः विष्णुः, अयं मुररिपुशब्दः विशेषणवाच्यपि विशेष्यं
विष्णुमेव कथयति, शब्दस्वाभाव्यात् । न चात्र पङ्कजादिपदवत् शक्ति-
सङ्कोच:, द्रव्यवाचकत्वादस्येति । तस्य वराह अवतारविशेषः, तस्य
तथोक्तस्य भवति वर्तते ॥
७
अत्रेत्थं पदयोजना — हे भगवति तव' पादाब्जरेणुः एषः अविद्यानां
अन्तस्तिमिरमिहिरद्वीपनगरी, जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी,
दरिद्राणां चिन्तामणिगुणनिका, जन्मजलधौ निमग्नानां मुररिपुवराहस्य
दंष्ट्रा भवति ॥
+
अत्र
परिणामालङ्कारः, आरोप्यमाणस्य आरोपविषयात्मतया
स्थितेः । तथाच मङ्खकसूत्रम्– ' आरोप्यमाणस्य प्रकृतोपयोगित्त्वे
परिणामः' इति । अस्यैवार्थः आरोप्यमाणस्य प्रकृतोपयोगित्वं आरोप-
• विषयात्मतया स्थितिनिबन्धनमेवेति फलामिप्रायेणोक्त
इति ।
4 भवत्पादाब्जरेणु:.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri