This page has not been fully proofread.

सौन्दर्यलहरी सब्याख्या
 
अत्रेत्थं पदयोजना — हे भगवति विरिञ्चिः तव चरणपङ्केरुहभवं
तनीयांसं पांसुं सञ्चिन्वन् लोकान् अविकलं विरचयति । हे भगवति
शौरिरेनं शिरसां सहस्रेण कथमपि वहति । हे भगवति एनं संक्षुद्य हरः
भसितोद्धूलनविधिं भजति ॥
 
अयं भावः—
ब्रह्मविष्णुमहेश्वराणां प्रपञ्चविषयसृष्टिस्थितिलयकर्तृत्वं
भगवत्याः पादाब्जरेणुमहिमायत्तमिति ॥ २ ॥
 
तमेव पांसु प्रस्तौति—
 
अविद्यानामन्तस्तिमिरमिहरद्वीपनगरी
जडानां चैतन्यस्तवकमकरन्दस्रुतिझरी ।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमनानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥
 
एषः पांसुः अविद्यानां अविद्याविष्टचित्तानां, अज्ञानिना-
मित्यर्थः, न तु अविद्यमानविद्यानां, अविद्याया भावरूपत्वात् । अर्श-
आदित्वात् अच्प्रत्ययः, अविद्यावन्तः अविद्या इति ।
अविद्याविष्टचिता अपि उपचारेण अविद्या इति । तेषां अन्त-
यहा
स्तिमिरमिहिरद्वीपनगरी – अन्तस्तिमिरं अन्तः स्थिताज्ञानम् अज्ञानस्य-
तिमिरत्वारोपणं आवरकत्वसाम्यात् – यथा बाह्यपदार्थानावृणोति तमः, तथा
आन्तरपदार्थ आत्मानं आवृणोति अविद्या । तस्य तिमिरस्य मिहिरद्वीप -
नगरी, मिहिरस्य सूर्यस्य द्वीपः समुद्रमध्ये उदयप्रदेशः, तत्र
नगरी पत्तनं, बासगृहमिति यावत् जडानां मन्दानां दुर्मेघसां,
 
.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
-