This page has not been fully proofread.

द्वितीयः श्लोकः
 

 
तनीयांसं अतिसूक्ष्मं, पांसुं रजःकणं, तव भवत्याः, देव्याः
चरणपङ्केरुहभवं चरणौ पङ्केरुहे इव ताभ्यां भवं विरिञ्चिः
ब्रह्मा — विरिञ्चिशब्द इकारान्तः, 'विरिञ्चिश्च विरिञ्चनः' इति अमरशेषे
अभिधानात् । संचिन्वन् सम्पादयन्, भाण्डीकुर्वन्नित्यर्थः, विरचयति
विविधान् करोति, लोकान् – लोक्यन्त इति लोकाः स्थावरजङ्गमात्मक-
प्रपञ्च इत्यर्थः । यद्वा – ऊर्ध्वलोकाः सप्त भूरादयः, अधोलोकाः सप्त

अतलादयः, एवं
 
चतुर्दशलोकान् । अविकलं परस्परासङ्कीर्णं यथा
 
भवति तथा । यद्वा – यावत्प्रलयमेषां वैकल्यं यथा न भवति तथा ।
बहति प्रापयति क्षति एनं पांसुकणं चतुर्दशलोकात्मकतया अवस्थितम् ।
शौरिः शूरस्य यदोरपत्यं शौरिः बलभद्रः; तेन. शेषो लक्ष्यते,
शेषावतारत्वात् बलभद्रस्य । यहा – शृणाति हिनस्ति दशतीति शौरि:
सर्पराज:, शेष इति यावत् । यहा— शौरिः विष्णुः । तथोक्तं
 
4
 
चतु:शत्याम्-
1
 
"शिंशुमारात्मना विष्णुः सप्तलोकानधः स्थितान् ।
दघे शेषतया लोकान् भूरादीनूर्ध्वतः स्थितान्" ॥ इति ।
 
1
 
J
 
शेषपक्षेsपि शेष एव विष्णु:, रक्षणे विष्णोरेवाधिकारात् । कथमपि
कथंचित् सहस्रेण शिरसाम् । हरः अन्तकाले प्रपञ्चं हरतीति हरः,
संक्षुद्य सम्यक् मर्दयित्वा, एनं चतुर्दशभुवनात्मकतया अवस्थितं
पादरजःकणं, भजति सेवते, 'उपदिहतीत्यर्थः । भसितोद्धूलनविधिं
भसितेन यदुद्धूलनं उपदेहनं अङ्गरागकरणं, तस्य विधिः अनुष्ठानं
 
तं तथोक्तम् ॥
 
चतुर्दशलोकाः तान्. 2 उपजीवतीत्यर्थः.
 

 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri