This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अतः तस्माद्धेतोः त्वां भवतीं, आराध्यां आराधयितुं
पूजयितुमर्हा, हरिहरविरिञ्चादिभिः, हरिर्विष्णुः, हरो रुद्रः, विरिन्चो
ब्रह्मा, आदिशब्देन इन्द्रादयः संगृह्यन्ते । ते च अधिकारपुरुषाः
प्रपञ्चान्त–पातिनः । तैर्नमस्कार्यत्वं प्रपञ्चजनयित्र्याः भगवत्याः
युक्तमेवेत्युक्तं "अतस्त्वामाराध्यां " इति, न तु आरोपस्तुतिरिति
ध्येयम् । यहा – निगमा वा आदिशब्देन संगृह्यन्ते, निगमसेव्यत्वात्
भगवत्याः । तदुत्तरत्र 'श्रुतीनां मूर्धान' इत्यादौ स्फोर्यते ।
विरिञ्चशब्दः अकारान्तः ।
कथंशब्दार्थमुपस्करोति ।
 
.
 
अपिशब्दः
 

 
प्रणन्तुं नमस्कर्तुम् । प्रशब्दः कायिकं वाचिकं मानसिकं च त्रिविधं
नमस्कारमाह । स्तोतुं वा, केवलं स्तुतिमात्रमपि कर्तुं वेत्यर्थः ।
.
अकृतपुण्यः– पूर्वजत्मार्जितण्यनिपचयः कृतपुण्यः, तदन्यः अकृतपुण्यः
प्रभवति ईष्टे शक्तः ॥
 
-
 

 
• अत्रेत्यं पदयोजना – हे भगवति शिवो देवः शक्तया युक्तो
भवति यदि, तदा प्रभवितुं शक्तः । एवं न चेत्, स्पन्दितुमपि
कुशलो न खलु । अतः हरिहरविरिन्चादिभिरपि आराध्यां त्वां अकृत-
पुण्यः प्रणन्तुं स्तोतुं वा कथं प्रभवति ॥ १ ॥
 
तनीयांस पांसुं तव चरणपङ्केरुहभवं
विरिञ्चिः सञ्चिन्वन्विरचयति लोकानविकलम् ।
बहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः संक्षु'द्यैनं भजति भसितोद्ध॒लनविधिम् ॥ २ ॥
 
* ८४ श्लोकः, + क्षुभ्यैनं इति पाठान्तरम्.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri