This page has not been fully proofread.

प्रथमः श्लोक:
 
निर्मातुम् । न चेदेवं शक्तया युक्तो 'न चेदित्यर्थः ।
 
दीव्यतीति देवः
 
2
 
पूर्वोक्तः सदाशिवः । नखलू निषेधसम्भावनायाम् । स्पन्दितुमपि
चलितुमपि कुशलः समर्थः । निराकारस्य विभोराकाशतुल्यस्य स्पन्दना -
योगादिति हृद्वतोऽर्थः ॥
 
वाच्यार्थस्तु – शिवशक्त्योः जायापतिन्यायेन जायया शक्त्या
युक्तश्चेत् प्रपञ्चरूपसन्तानं निर्मातुं शक्नोति, तया वियुक्तश्चेन्न शक्नोतीति ॥
 
आगमरहस्यार्थस्तु – शिवशब्देन नवयोनिचक्रमध्ये चतुर्योन्यात्मक-
मर्धचक्रमुच्यते । शक्तिशब्देन अवशिष्टं पञ्चयोन्यात्मकमर्धचक्रमुच्यते ।
एवमधद्वय मिलितं नवयोन्यात्मकं चक्रं भवति । एतस्माच्चऋ। देव जगदुत्पत्ति-
स्थितिलया भवन्तीति पुरस्तान्निवेदयिष्यते । उक्तं च
 
चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ।
शिवशक्तयात्मकं ज्ञेयं श्रीचक्रं शिवयोर्वपुः ॥"
 
इति । शिवशक्त्योर्मेलनं षड्विंश सर्वतत्त्वातीतं तत्त्वान्तरमिति पुरस्तान्नि-
वेदयिष्यते । तस्मान्मेलनादेव जगदुत्पत्तिस्थितिलयाः, न केवलादेवेति च
वक्ष्यते । यथोक्तं वामकेश्वरमहातन्त्रे चतुश्शत्याम्—
 
" परोऽपि शक्तिरहितः शक्तथा युक्तो भवेद्यदि ।
सृष्टिस्थितिलयान् कर्तुमशक्तः शक्त एव हि ॥" इति ।
एतच्च 'चतुर्भिः श्रीकण्ठैः' * इत्यादिश्लोकव्याख्यानावसरे निपुणतरमुपपाद-
यिष्यामः ॥
 
११ श्लोकः.
 
1
 
न भवेदित्यर्थ:. : न खलू निषेधसम्भावनयोः•
 
शिवशब्देन शिवयोः संबन्धि 'चतुर्भिः श्रीकण्ठैः' इति निरूपयिष्यमाण-
3
 
नवयोन्यात्मक श्रीचक्रमध्ये–म.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri