2023-02-16 08:26:00 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सव्याख्या
सोऽहं लक्ष्मीधरः प्राह टीकां लक्ष्मीधरामिधाम् ।
एनां समाहितस्वान्ताः सेवन्तां सततं बुधाः ॥
स्यादेव मेऽलसतया मतिमान्द्यतो वा
दोषः क्वचित्वचिदथापि न कापि शङ्का ।
नैसर्गिकी खलु गुणीकरणप्रवीणा
1
शक्तिः सदा विजयते भुवि सज्जनानाम् ॥
इह खलु शङ्करभगवत्पूज्यपादाः समयमततत्त्ववेदिनः समयाख्यां
चन्द्रकलां श्लोकशतेन प्रस्तुवन्ति — शिव इति । शिवः सर्वमङ्गलोपेतः
सदाशिवतत्त्वम् । वश कान्तौ इत्यस्माद्धातोः शिवशब्दो निष्पन्नः । यथोक्तम्–
" हिसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः ।
वर्णव्यत्ययतः सिद्धौ पश्यकः कश्यपो यथा ।"।
-
इति । 'वश कान्तौ' इत्ययं धातुः तुदादिः अदादिश्च संगृहीतः । तुदा-
देर्वशतेः दीप्तिरर्थः । कान्तिर्दीप्तिः । अदादेर्वष्टिरिति कामना अर्थः ।
इच्छाशक्त्याश्रयत्वात् ईश्वरस्य शिवत्वम् । वशति प्रकाशते स्वयं-
प्रकाश इति, यद्वा स्वस्मिन् प्रपञ्च प्रकाशयतीति शिवः, यद्वा-
'शीङ् स्वप्मे' इत्यस्माद्धातोः शिवशब्दो निष्पन्नः । स्वप्नं वाति क्षिपतीति
शिवः, जाब्यरहितः, अविद्या निर्मुक्त इत्यर्थः । यद्वा – स्वप्नमविद्यां
बाति गच्छतीति शिवः, सादाख्यकलासंवलित इति यावत् । तस्यैव शिव-
शब्दवाच्यत्वं वक्ष्यते । तादृशः शिवः शक्त्या जगन्निर्माणशक्त्या युक्तः
अवच्छिन्नः – अविद्यावच्छिन्नचैतन्यस्यैव ब्रह्मणः जगन्निर्माणे शक्तत्वात् ।
यदि भवति, भवति चेत्, तर्हि शक्तः समर्थः प्रभवितुं प्रपञ्च
-
•
.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri