2023-02-16 08:26:00 by ambuda-bot
This page has not been fully proofread.
॥ ॐ ॥
श्रीशङ्करभगवत्पूज्यपादविरचिता
सौन्दर्यलहरी
लक्ष्मीधरदेशिकविरचितया लक्ष्मीधराख्यया
व्याख्यया सहिता
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥
व्याख्यानप्रारम्भः
वन्दामहे महीयांसमंसलम्बिजटाभरम् ।
यत्कङ्कणझणत्काररवः शब्दानुशासनम् ॥
शेषांशेषोक्तिभूषाः कणचरणचणग्रन्थसौगन्ध्यजिघ्राः
भट्टोक्तिप्रौढिलीढा गुरुगुरुतरगीर्गुम्भशुम्भडिजृम्भाः ।
निश्शङ्काः शङ्करोक्तौ पशुपतिमतनिर्वाहकाः सांख्यसंख्या:
यस्य श्रीलोल्ललक्ष्मीधरविबुधमणेर्भान्ति वाचां निगुम्भाः ॥
CC-0. Jangamwadi Math Collection. Digitized by eGangotri